SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८ ] सरसामोद व्याख्यासहितम् । दकत्वेन प्रशस्ततेजःशालितामिति यावत् । एतीति संबन्धः । तस्माद्यत्कृपाकटाक्षयोगेन सामान्यतः सर्वेषामधिकारिकुञ्जराणामज्ञानान्ध्यविध्वंसनं वर्तते तद्वन्मादृशः प्रस्तरप्रायजडतरान्तः करणोऽपि यत्स्वामिकत्वादेव अद्वैतशास्त्रीय ग्रन्थरचनरूपप्रशस्ततेजोवत्त्वं प्राप्नोति स एकः केवलः श्रीसद्गुरुरेव सकलैश्वर्यवत्सुबुद्धयैचादौ वन्दनीय इत्याशयः । यत इत्यावृत्त्या हेतुपरमपि योजनीयम् । तेन काव्यलिङ्गालंकारोप्येतदङ्गतयात्र सिद्ध्यतीत्याकूतम् । एवं चात्र सूर्यस्य श्रीमद्गुरुणासह तमः शामकत्वादिरूपसाधर्म्यस्य वक्ष्यमाणैतद्भेदमध्ये प्रथमस्य यद्दीप्तियोगतः तमः शमश्चेत्यादौ वर्णितत्वेन तत्प्रकार करणकत्वात्तेजस्विष्वर्क एवेत्यादिना अप्रस्तुतसूर्यव्यवहारवर्णननिमित्तकप्रस्तुतसद्गुरुव्यवहारप्रतिपादकत्वादेतत्काव्यव्यङ्ग्यशान्तरसानुप्रा ४६७ णितश्रीगुरुविषयकरतिरूपव्यङ्गयार्थोपस्कारकच मत्कारजनकत्वाच्च लक्षणसंगतिः । यथावा काव्यप्रकाशे । साच - ' -' कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति । तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा' । तदन्यस्य कारणादेः । क्रमेणोदाहरणानि - 'याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कृशासि कथयत्येवं सबाष्पे मयि । लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ' । अत्र प्रस्थानात्कि - मिति निवृत्तोऽसीति' कार्ये पृष्टे कारणमभिहितम् । 'राजन्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते । इत्थं नाथ शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जराच्चित्रस्थानवलोक्य शून्यवलभीष्वेकैकमाभाषते' । अत्र प्रस्थानोद्यतं ज्ञाला सहसैव त्वदरयः पलाय्य गता इति कारणे प्रस्तुते कार्यमुक्तम् । एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि । अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तः शुचा' । अत्रास्थाने जडानां महत्वसंभावना भवतीति सामान्ये प्रस्तुते विशेषः कथितः । 'सुहृद्वधूबाष्पजलप्रमार्जनं करोति वैरप्रतियातनेन यः । स एव पूज्यः स पुमान्सनीतिमान् सुजीवितं तस्य स भाजनं श्रियः' । अत्र कृष्णं निहत्य नरकासुरवधूनां यदि दुःखं शमयसि तदा त्वमेव श्लाघ्य इति विशेषे प्रस्तुते सामान्यमुदितम् । तुल्ये प्रस्तुते तुल्याभिधाने त्रयः प्रकाराः । श्लेषः समासोक्तिः सादृश्यमात्रं वा तुल्यान्तरस्याक्षेपहेतुः । क्रमेणोदाहरणानि - पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयनेन महानपि स्यात् । अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन' । ' येनास्यभ्युदितेन चन्द्र गमितः क्लान्ति रवौ तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः । क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मनागस्त्वेवं जडधामता तुभवतो यद्योनि विस्फूर्जति' । ‘आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जित मनेन दुरर्णवेन । क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च' इति ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy