________________
४६८ साहित्यसारम् ।
[ उत्तरार्धे विस्तरस्तु तत्रैवेह द्रष्टव्यः प्रदीपादावपि । सरखतीकण्ठाभरणे त्वत्र प्रकारान्तरमेवोक्तं वाच्यप्रल्येतव्यादिबहुविधभेदैः । अथापि दिङ्मात्रं ततः संगृह्यते । वाच्या प्रत्येतव्या च क्रमाद्यथा-'पङ्गो धन्यस्त्वमसि न गृहं यासि योऽर्थी परेषां धन्योऽन्ध खं धनमदवतां नेक्षसे यन्मुखानि । श्लाघ्यो मूकस्त्वमसि कृपणं स्तौषि नाथाशया यः स्तोतव्यस्त्वं बधिर न गिरं यः खलानां शृणोषि' । 'कामं वनेषु हरिणास्तृणानि खादन्त्ययत्नसुलभानि । विदधति धनिषु न दैन्यं ते किल पशवो वयं सुधियः' इति । यथावा प्रतापरुद्रीयेऽप्येवमेव—'आशासु प्रशमितवासनादयेभ्यः किं लब्धं भ्रमरगणैर्जरत्तरुभ्यः । पुन्नागो नवनवसौरभप्रसूनैरामोदं दिशति निवासमारभध्वम्' इति । 'द्रष्टुमना अपि न पश्यति न भणति वक्तं सकुतूहलापि। स्पर्शोत्सुकापि न स्पृशति वनितायाः कीदृशी सृष्टिः' इति च च्छायेयम् । यथावा साहित्यदर्पणेऽप्येवमेव–'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिम॑गीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । कार्कश्यं कलया च कोकिलवधूकण्ठे.. ष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्दा इव' । अत्र संभाव्यमानेभ्य इन्द्वादिगताअनलिप्तत्वादिभ्यः कार्येभ्यो वदनादिगतसौन्दर्य विशेष. रूपं प्रस्तुतं कारणं प्रतीयते । 'गच्छामीति मयोक्तया मृगदृशा निःश्वासमुद्रे किणं मुक्त्वा तिर्यगवेक्ष्य बाष्पकलुषेणैकेन मां चक्षुषा । अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यतामित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः' इति च । वथावा कुवलयानन्दे–'सौहार्दवर्णरेखाणामुच्चावचभिदाजुषाम् । परोक्षमिति कोऽप्यस्ति परीक्षानिकषोपलः' । अत्र यदि त्वं प्रत्यक्षइव परोक्षेऽपि मम हितमाचरसि तदा त्वमुत्तमसुहृदिति विशेषे वक्तव्यत्वेन प्रस्तुते सामान्यमभिहितमिति । तत्रैव यथावा तदीये वरदराजस्तवे-'आश्रित्य नूनममृतद्युतयः पदं ते देहक्षयोपनतदिव्यपदाभिमुख्याः । लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः' । अत्राप्राकरणिकचन्द्रगततयोत्प्रेक्षमाणेन लावण्यनिचयविन्यासेन कारणेन तत्कार्यमनन्तकोटिचन्द्रलावण्यशालित्वमनन्यमुख. साधारणं भगवन्मुखे वर्णनीयतया प्रस्तुतं प्रतीयते । तथाहि चंद्रे तावन्मन्त्रलिङ्गाद्वृद्धिक्षयाभ्यां भेदाध्यवसायाद्वा प्रतिमासभिन्नत्वेन वर्णितास्तेनानीताश्चन्द्रा अनन्तकोटय इति सिद्धम् । कालस्यानादित्वात्। सर्वेषां च तेषां आकाशसमाश्रयणं श्लेषमहिन्ना भगवचरणसमाश्रयणेनाध्यवसितम् । भगवच्चरणप्रपन्नानां च देहक्षयोपस्थितौ परमपदप्राप्त्याभिमुख्यं तदानीमेव खसुहृद्वर्गे स्वकीयसुकृतस्तोमनिवेशनं ततः सूर्यमण्डलप्राप्तिश्चेत्येतत्सर्वं श्रुतिसिद्धमिति तदनुरोधेन तेषां देहक्षयकालस्यामा. वास्यारूपस्योपस्थितौ सूर्यमण्डलप्राप्तेःप्राक्प्रत्यक्षसिद्धपुण्यत्वेन निरूपितस्य - तेन स्य प्रहाणं निमित्तीकृत्य तस्य चन्द्रसादृश्यस्वरूपोपचरिततत्सौहार्दवति चः समु. न्यसनमुत्प्रेक्षितम् । यद्यपि सुहृद्बहुत्वे तावत्स्वपुण्यसंक्रमणं भवति तथा । एतेना१ 'नवो नवो भवति जायमानः' इत्यादि ।
तां वन्युत्पा