________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । त्येकवचनेन भगवन्मुखमेव चन्द्रस्य सुहृद्भूतं न मुखान्तराणि चन्द्रसादृश्यगन्ध. स्यास्पदानीति भगवन्मुखस्येतरमुखेभ्यो व्यतिरेको व्यञ्जितः । यद्यपि ऋतौ सूर्यमण्डलप्राप्त्यनन्तरं भाविविरजानद्यतिक्रमणानन्तरमेव सुहृत्फलकृतसंक्रमणं श्रूयते तथापि शारीरकशास्त्रे तस्यार्थवशात्प्राग्भावः स्थापित इति तदनुसारेण विन्यस्य मिहिरं यान्तीत्युक्तम् । कार्यनिबन्धना यथा-'नाथ त्वदङ्गिनखधावनतोयलमास्तत्कान्तिलेशकणिका जलधिं प्रविष्टाः । ता एव तस्य मथनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्नाः' । अत्र भगवत्पादाम्बुजक्षालनतोयरूपायां दिव्यसरिति अलक्तरसादिवल्लग्नानां तया समुद्रं प्रविष्टानां नखकान्तिलेशकणिकानां परिणामतया संभाव्यमानेन समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण तनखात्युत्कर्षः प्रतीयते । यथावा-'अस्याश्चेद्गतिसौकुमार्यमधुना हंसस्य गर्वैरलं संलापो यदि साध्यतां परभृतैर्वाचंयमत्वं वरम् । अङ्गानामकठोरता यदि दृषत्प्रायैव सा मालती कान्तिश्चेत्कमला किमत्र बहुना काषायमालम्बताम्' इति । तत्रैवाग्रे यथावा'तापत्रयौषधवरस्य तव स्मितस्य निःश्वासमन्दमरुता वितुषीकृतस्य । एते कडङ्गरचया इव विप्रकीर्णा जैवातृकस्य किरणा जगति भ्रमन्ति' । अत्र ह्यप्रस्तुतानां चन्द्रकिरणानां भगवन्मन्दस्मितरूपदिव्यौषधधान्यविशेषकडङ्गरचयोत्प्रेक्षणे भगवन्मन्दस्मितस्य तत्सारतारूपः कोऽप्युत्कर्षः प्रतीयते । नच धान्यकडङ्गरचययोः कार्यकारणभावादिसंबन्धोऽस्ति । अतः सहोत्पत्त्यादिकमपि संबन्धान्तरमाश्रयणीयमिति । यथावा रसगङ्गाधरे-'आनम्य वल्गुवचनैर्विनिवारितेऽपि रोषात्प्रयातुमुदिते मयि दूरदेशम् । बाला कराङ्गुलिनिदेशवशंवदेन क्रीडाबिडालशिशुनाशु रुरोध मार्गम्। तत्रैवाग्रे यथा-'पाण्डित्यं परिहत्य यस्य हि कृते बन्दिलमालम्बितं दुष्प्रापं मनसापि यो गुरुतरैः क्लेशैः पदैः प्रापितः । रूढस्तत्र स चेनिगीर्य सकलां पूर्वोपकारावलिं दुष्टः प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे' । अत्र दुष्टेषु कृत उपकारः परिणामे न सुखं जनयतीति प्रस्तुतं विशेषेण सामान्यं गम्यते। वस्तुतस्तु प्रथमस्याप्रस्तुतप्रशंसाप्रकारस्य नानाविधत्वं संभवति । यत्रात्यन्तमप्रस्तुतेन वाच्येन प्रस्तुतं गम्यते स प्रकौरो निगदितएव । यत्र च स्थलविशेषे वृत्तान्तद्वयमपि प्रस्तुतं सोऽप्येकः। यथा जलक्रीडाप्रकरणे भ्रमरकमलिन्यादिषु पुरःस्थितेषु नायके च खनायिकायामननुरक्ते पार्श्ववर्तिन्या नायिकासख्याः कस्याश्चिदुक्तौ'मलिनेऽपि रागपूणों विकसितवदनाममन्दजल्पेऽपि । त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि' इति पद्ये । अथात्र कथमप्रस्तुतप्रशंसा वाच्यार्थस्य प्रस्तुतत्वेन तल्लक्षणानालीढवादितिचेन । अप्रस्तुतशब्देन हि मुख्यतात्पर्याविषयीभूतोऽर्थो विवक्षितः।सच क्वचिदत्यन्ताप्रस्तुतःक्वचित्प्रस्तुतश्चेति न कोपि दोषः। नच ध्वनिमात्रस्याप्रस्तुतप्रशंसाखापत्तिरिति वाच्यम् । अतएव तत्र सादृश्याद्यन्यतमप्रकारेणेति विशेषणमुपात्तमिति विभावनीयम् । एतेन द्वयोः प्रस्तुतत्वे
१ 'दिगन्ते श्रूयन्तेइत्यायुदाहृतस्येत्यर्थः'-२ दिगन्तइत्यादिना.
४०