________________
४७.
साहित्यसारम्।
[ उत्तरार्धे तिर्यक्ष्वपि तरः सिंहो भगवानपि शत्रुहृत् । यत्सारूप्यमवाप्यैव समभूद्भक्तवत्सलः ॥ १९३॥ वर्येन वर्ण्यव्यक्तौ स्याटेक्षितःप्रस्तुताकुरः।।
स्वर्द्धमौलेरलौ गुअत्यपि मुग्धासि मालति ॥ १९४ ॥ प्रस्तुताङ्कुर इति कुवलयानन्दायुक्तमुपेक्षणीयम् । किंचिद्वैलक्षण्यमात्रेणैवालंकारान्तरत्वकल्पने वाग्भङ्गीनामानन्यादलंकारानन्यप्रसङ्ग इत्यसकृदावेदितत्वादिति । अत्रोच्यते । यदिदं यत्र चेत्यादिना भवता व्यवस्थाप्य कुवल. यानन्दोपेक्षणमाज्ञप्तं तत्त्वदन्थेन सहैवाग्रिमेण विरुद्धम् । तथाहि अग्रे त्वयैवोकम् । एवं च वाच्येन व्यक्तेन वा अप्रस्तुतेन वाच्यं व्यकं वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रशस्यते साऽप्रस्तुतप्रशंसेति तल्लक्षणपरिष्करणं, तथा अप्रस्तुतप्रशंसायां प्रस्तुतं व्यङ्गयमिति निर्विवादमिति च तदने खरहस्यकथनमपि च कृतम् । तदुक्तरीत्या मलिनेपीत्यादिपद्ये 'आपेदिरेऽम्बरपथं परितः पतङ्गा भृङ्गारसालमुकुलानि समाश्रयन्ते । संकोचमञ्चति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु' इति तावक एव तादृक्पद्यान्तरे चोभयोरपि प्रस्तुतत्वेनायु. मतोऽभिमतत्वे कथं संगच्छेत । नहि कमलिनीभ्रमरादिरप्रस्तुतो वाच्योऽर्थोऽपि लक्षणे संगृहीतः, नाप्यव्यङ्गयस्य शक्त्येकगम्यस्य तस्य प्रकृतत्वं संभवति । उक्तनियमभङ्गापत्तेः । किंच वाच्यं व्यक्तं वा प्रस्तुतमिति परिष्कारे वाच्यस्यापि प्रस्तुतत्वकथनं प्रस्तुतव्यङ्गयमिति निर्विवादमित्युत्तरग्रन्थविरुद्धं चेति निर्मत्सराः सूरीश्वरा एव विचारयन्त्विति दिक् ॥ १९२ ॥ प्रोक्तोदाहरणे भानोर्यावच्चक्षुष्मरसुलभत्वेन परमदुर्लभसद्गुरुनिदर्शनानौचित्याखारस्यादुदाहरणान्तरमाह-तिर्यश्वपीति । पक्षे शत्रुर्मोहः ॥ १९३ ॥ एवमप्रस्तुतप्रशंसां निरूप्य तत्प्रसङ्गसंगन्तं प्राचामसंमतमपि कुवलयानन्दे श्रीमदप्पय्यदीक्षितैः-'प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः। किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेद्धया' इत्यादिना प्रतिपा, दितं प्रस्तुताङ्करालंकारं लक्षयति-वर्णेनेत्यर्धेनैव । कवेरन्यस्य वा वक्तुर्वर्णयितुमिष्टेन प्रस्तुतव्यवहारेणेत्यर्थः । वयेति प्रस्तुतव्यवहारव्यञ्जनायां सत्यामित्ये. तत् । दैक्षितः निरुक्तरीत्या श्रीमदप्पय्यदीक्षितकसमंत इति यावत् । प्रस्तुतेति। प्रस्तुताङ्कुरनामकोऽलंकारः स्यादिति संबन्धः । एवंच शक्तिवृत्तिप्रतिपाद्यप्रकृतव्यवहारकरणकव्यञ्जनावृत्तिद्वारकप्रतिपद्यमानप्रस्तुतव्यवहारत्वं प्रस्तुताङ्कुरालंकारत्वमिति तत्सामान्यलक्षणं पर्यवसितम् । तमुदाहरति-स्वरित्यर्धेनैव । कल्प. द्रुमकुसुमशेखरसंबन्धिनीत्यर्थः । अलौ भ्रमरे गुञ्जत्यपि त्वद्विकासनाभ्यर्थनार्थ गुञ्जारवमपि कुर्वति सतीत्यर्थः । एतेनात्यादरः सूच्यते । रे मालति, त्वं मुग्धैवास्य विकसितैव वर्तस इत्यन्वयः। पक्षे इदं हि वृन्दावने मानवती राधिका प्रति मालतीनिकुञ्ज गुञ्जद्भङ्गकोरकपुजेऽनुनयत्यपि भगवति अप्रसन्नां तां प्रति तत्सखीवाक्यं । तत्र मालतीमुकुल एव भूयः परिभ्रमणेन गुञ्जभमरवरां मालती.