SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ४७१ मुद्दिश्य-स्वरिति । एतेन कल्पद्रुमस्य क्षीरसमुद्रमथनोत्पन्नत्वात्तत्सोदरीभूतन्दि. राधरामृततृप्तत्वं भगवति व्यज्यते । एतादृशे अलौ श्रीकृष्णे कृष्णवर्णत्वात्पराङ्गनालम्पटत्वाच्च षट्पदसदृश इत्यर्थः । एतेन सारग्राहित्वेन गुणज्ञत्वं द्योत्यते । तत्रापि गुजत्यपि गुञ्जारवसदृशमधुरतरानुलापमपि करोति सतीत्येतत् । एतेनासादरो ध्वन्यते । नतु वद्रोषातूष्णीमवस्थित इत्यर्थः । एवमपि रे मालति, तत्सदृशकृशाङ्गि निसर्गसौरभ्यशालिनि राधिके, त्वं मौनमेवावलम्बस इदमनुचितमेवेति भावः । एतेन यद्ययं विफलयत्नत्वेनोदासीनः सन्नन्यत्रेयात्तर्हि तदानीं वन्मुखविकासोऽपि तदाखादकाभावेन विफल एव स्यादतस्त्वं द्रुतमेव मदुपदेशं हिततमं मला प्रसीदेयाशयः सूच्यते । यथावा कुवलयानन्दे-'अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि किं नवमल्लिकायाः' इति । यथावा तत्रैव-कोशद्वन्द्रमियं दधाति नलिनी कादम्बचञ्चुक्षतं धत्ते चूतलता नवं किसलयं पुंस्कोकिलाखादितम् । इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्तटे चेलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना' इति । एतस्यालंकारत्वे प्राचां संमतिरपि तत्रैव । उक्तं हि ध्वनिकृता-'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः। यत्राविष्क्रियते खोक्त्या सान्येवालंकृति_नेः' इति।तत्रैवाने यथा-'रात्रिः शिवा का. चन संनिधत्ते विलोचने जाग्रतमप्रमत्ते । समानधर्मा युवयोः सकाशे सखा भविष्य. सचिरेण कश्चित्' इति । यथावा-'वहन्ती सिन्दूरं प्रबलकबरीभारतिमिरत्विषां वृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम्। तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरीपरी. वाहस्रोतःसरणिरिव सीमन्तसरणिः'। अत्र वर्णनीयत्वेन प्रस्तुतायाः सीमन्तसरणेदनसौन्दर्यलहरीपरीवाहत्वोत्प्रेक्षणेन परिपूर्णतटाकवत्परीवाहकारणीभूता खस्थाने अमान्ती वदनसौन्दर्यसमृद्धिः प्रतीयते । सापि वर्णनीयत्वेन प्रस्तुतैवेति । यथावा मदीये कृष्णलीलामृते-'सितैव कीर्तिर्भवति खभावतस्ततोऽस्य मूर्त्याऽसितयापि संगता । रसेन हीनापि च मे सरखती किमत्र तीर्थे खरतां न यास्यति' इति । अत्र वर्णनीयत्वेन बुद्धिस्थतया साक्षिप्रत्यक्षत्वादिदंशब्दनिर्दिष्टस्य भगवतः श्रीकृष्णस्य सद्गुणख्यातिलक्षणा कीर्तिः कविसमयैकसिद्धशुक्लरूपवत्त्वात् 'सितासिते सरिते यत्र संगते' इत्यादिश्रुत्यादिप्रसिद्धया जगदुद्धारकत्वसाधर्येण गङ्गया सह खाभाविकताद्रूप्येण वर्णनार्थ स्तुतैव । तथास्य मूर्तिशब्दितेन्दीवरसुन्दरव. र्णव्यक्त्या सहवासयोग्यया असिताख्यकालिन्दीतादात्म्यापनया संगतिरपि तस्याः संवर्णनाय प्रस्तुतैव । एवं गङ्गायमुनासंगमे प्रयागे शास्त्रकप्रसिद्धायाः प्राच्याः सरखत्याः सुगुप्तत्वेन रसशब्दितजलविकलत्वात्तदभिन्नत्वेनामानित्वादिखाभाव्याद्रसपदवाच्यशृङ्गारादिराहित्येन वर्णनीया निजवाण्यपि तयोर्भगवत्कीर्तिमूर्योः सितासितयोर्मेलने सरखतीत्वेन संनिविष्टा प्रस्तुतैव तथोक्तसामय्या तस्यां ती. येश्वरपदवाच्यप्रयागवत्प्रकृतेऽपि प्राग्वत् श्लेषेण भगवत्कीर्तिमूर्तिवर्णनपरायां
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy