SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४७ साहित्यसारम् । [ उत्तरार्धे पर्यायोक्तं तु वण्र्येऽन्यप्रकाराक्षेपतोऽभिधा। किंचिद्विरहशून्योऽपि यो न भोगी स पातु माम्॥१९५॥ मद्वाण्या शास्त्रशिरोमणित्वनैयत्यमप्याक्षेपादिध्वनितं प्रस्तुतमेवेत्यत्र शक्तिव्यतिभ्यां गम्ययोः क्रमात्रिपादीचरमचरणार्थयोरुभयोरपि प्रस्तुतत्वात्प्रस्तुताङ्कुरा. लंकारत्वं समुचितमेवेति ध्येयं धीरैः ॥ १९४ ॥ एवं शक्यव्यङ्गयोभयोरपि प्रस्तुतत्वे प्रस्तुताङ्कुरालंकारनिरूपणप्रसङ्गसंगतं पर्यायोक्तालंकारं सामान्यतो लक्षयति-पर्यायोक्तं वित्यर्धेनैव । वर्ण्य व्यञ्जनावृत्तिप्रतिपाद्यवस्तुनि विषय इत्यर्थः । अन्येत्यादि । अन्यः खविवक्षितव्यङ्गयरूपादितरः एतादृशो यः प्रकारः धर्मः तथा आक्षेपः अर्थापत्तिव्यापारः ताभ्यामिति तथा क्वचियङ्गयखरूपप्रकारेतरप्रकारेण क्वचिच्छक्यार्थान्यथानुपपत्तिलक्षणाक्षेपेण वेत्यर्थः । अभिधाशक्तिवृत्तिमूलकव्यक्तिवृत्तिप्रतिपाद्यार्थोपस्थितिस्तु पर्यायोक्तमकारणं भवतीत्यन्वयः । तदाहुः पण्डितराजाः-'विवक्षितस्यार्थस्य भङ्गयन्तरेण प्रतिपादनं पर्यायोक्तम् । येन रूपेण विवक्षितोऽर्थस्तदतिरिक्तः प्रकारो भङ्गयन्तरं आक्षेपो बेति' । तदुदाहरति-किंचिदित्यर्धेनैव । य: वक्ष्यमाणगुणकः प्रकृतः पदार्थः । किंचिदित्यादि । खकान्ताप्रतियोगिकयावद्वियोगविरहितोऽपीत्यर्थः । भोगी सबाह्याभ्यन्तरखाङ्गनासंभोगशालीत्येतत् । एतादृशो न भवति । स एव मां पातु भवभयाद्रक्षत्विति संबन्धः । अत्र भगवानर्धनारीश्वर एव सार्वदिकसावाशिकखरमणीविरहविधुरत्वे सति सर्वसंभोगशून्यत्वप्रकारेण तदुक्त्यन्यथानुपपत्तिलक्षणाक्षेपेण वा द्योतितः खकर्मकपालनक्रियाकर्तृत्वविशिष्टः सततमस्त्विति कव्याशीविषयः । तेनात्र निरुक्तपर्यायोक्कालंकरणलक्षणसमन्वयः स्पष्ट एव । यथावा कुवलयानन्दे–'लोकं पश्यति यस्याभिः स यस्यानिं न पश्यति। ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव' । अत्र गौतमः पतञ्जलिश्च खासाधारणस्वरूपाभ्यां गम्यौ रूपान्तरेणाभिहिताविति । यथावा रसगङ्गाधरे–'सूर्याचन्द्रमसौ यस्य वासो रजयतः करैः। अङ्गरागं सृजत्यग्निस्तं वन्दे परमेश्वरम्' । अत्रापि गगनाम्बर इति सूर्यचन्द्रकररज्यमानवस्त्र इत्याकारेण भस्माङ्गराग इत्यग्निसृज्यमानाङ्गराग इत्या. कारेण निरूपित इति । किंच तत्रैवाग्रे यदस्मिन्प्रकरणे कुवलयानन्दकारेणोकं तत्सर्वमविचारितरमणीयमेव । तथाहि यत्तावदुच्यते-'नमस्तस्मै कृतौ येन मुधा राहुवधूस्तनौ' । अत्र भगवान्वासुदेवः 'खासाधारणरूपेण गम्यः राहुवधूकु. चवैयर्थ्यकारकत्वेन रूपान्तरेणाभिहित इति । अत्र हि राहुवधूकुचवैयर्थ्यकारित्वेन राहुशिरश्छेदकारित्वं व्यज्यत इति तावनिर्विवादम् । भगवद्वासुदेवत्वं तु विशेषणमर्यादया लभ्यं न काव्यमार्गीयव्यङ्गयकक्षामधिरोढुं प्रभवतीत्यादिना । तस्मादत्र च्छेदकारित्वेनावगमः पर्यायोक्तस्य विषयो नतु भगवद्रूपेणेति सहृदयैराकलनीयमिति सानुवादं कुवलयानन्दविदलनं यदकारि तत्तुच्छम् । विशेषाभावात् । तथाहि । त्वया तावदाहुवधूकुचवैयर्थ्यकारित्वेन राहुशिरश्छेदकारित्वं व्यज्यत
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy