________________
४७३
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
पर्यायोक्तान्तरं व्याजेनेष्टकृद्दीक्षितेरितम् ।
राधे मत्कन्दुकौ देहीत्याचकर्षाऽच्युतः कुचौ ॥ १९६ ॥ इति तावनिर्विवादमिति तस्मादत्र च्छेदकारित्वेनावगम इति चोपक्रमोपसंहारयो. र्वदता 'नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ' इत्युदाहरणे पर्यायोक्तालंकारविषयत्वेन यद्रावधकर्तृत्वं धर्मजातमेव व्यङ्गयत्वेनेषितं तद्धर्मिणं विहाय नव खरूपं लभेतेत्यतस्तद्धर्मीयतच्छन्दशक्यतावच्छिन्नत्वेन व्यक्तः श्रीमान्वासुदेवः प्रोकविशेषणनिरूपितविशेष्यतावच्छिन्नस्त्वार्थिकस्तवापि संमत एव । स एव कुवलयानन्दकारैः स्पष्टप्रतिपत्त्यर्थं संक्षेपतोऽत्र भगवानित्यादिना तथोक्तः । तस्यायमर्थःभत्र नमस्तस्मा इत्याद्यर्धपद्य इत्येतत् । भगवान्मोहिनीरूपधारणैश्वर्यशाली वासुदेवः परमात्मा विष्णुरेव । स्वेति । खकीयमोहिन्यवतारात्मकाभिनवराहुशिरश्छेदनक्षमलोकोत्तरवपुषेति यावत् । गम्यः व्यञ्जनावृत्तिप्रतिपाद्य इत्यर्थः । राहुवधूकुच. वैयर्थ्यकारकत्वेन निरुक्तराहुशिरश्छेदलक्षणकारणजन्यराहुवधूकुचवैयर्थीकाररूपकायात्मकधर्मविशेषावच्छिन्नरूपान्तरेणाभिहित इति विचारे तव तेषां च फलतः को विशेष इति निष्पक्षपातिनः सहृदयचक्रवर्तिन एव सूक्ष्मदृशा विमर्शयन्वित्यलं पल्लवितेन ॥ १९५ ॥ एवं 'पर्यायोकं तदप्याहुर्यद्याजेनेष्टसाधनम् । यामि चूत. लतां द्रष्टुं युवाभ्यामास्यतामिह' । अत्र नायिका नायिकेन संगम्य चूतलतादर्शनव्याजेन निर्गच्छन्त्या सख्या तत्वाच्छन्द्यसंपादनेनेष्टसाधनं पर्यायोक्तमिति कुवलयानन्दप्रसिद्ध पर्यायोक्तान्तरमपि ससंमतिकं संक्षेपतो लक्षयति-पर्यायो. तान्तरमिति। अपरं पर्यायोक्तमित्यर्थः।व्याजेन किंचिन्मिषेण इष्टकृत् अभिमतार्थसाधनमिति यावत् । एतादृशं । दीक्षितेति । श्रीमदप्पय्यदीक्षितैः कुवलयानन्दे कथितमस्तीत्यर्थः । तदुदाहरति-राधे मत्कन्दुकाविति । हे राधे, त्वं इमौ स्वपरिहितकञ्चुक्यां निगूहितावित्यार्थम् । एतादृशौ मत्कन्दुको बलरामस्य मम च क्रीडार्थ निर्मिती दिव्यवसनघनगुच्छावित्यर्थः । देहीति वदनिति शेषः । एतादृशः सन् अच्युतः खभक्तानुग्रहार्थे लोकदृष्टया तावदेतदुपलक्षिता अनन्तलीलाः कुर्वनपि स्वाद्वैतसच्चिदानन्दरूपात्कालत्रयेऽप्यस्खलितः श्रीकृष्ण इत्यर्थः । कुचौ प्रकृतराधिकायाः स्तनावेवेति यावत् । आचकर्ष बलादाकर्षयामासेति संबन्धः । अत्र खकन्दुकद्वयनिगृहनं राधायामारोप्य तद्याचनच्छद्मना तस्याः स्तनमर्दनं नायककर्तृकं खेष्टसाधनं वर्णितमिति तल्लक्षणसंगतिः । यथावा कुवलयानन्द एव-देहि मत्कन्दुकं राधे परिधाननिगूहितम् । इति विलंसयनीवीं तस्याः कृष्णो मुदेस्तुवः' इति । नन्वयमेवार्थः प्रकृतोदाहरणेऽपि भवता संग्रथित इत्यर्थचौर्यापत्तिरितिचेन्न । छायानुहरणस्यैवात्र मया कृतत्वात् । तस्य तु 'कविरनुहरति छायामर्थ कुकविः पदं चोरः । सकलप्रबन्धहर्ने साहसकर्त्रे नमस्तुभ्यम्' इत्यभियुक्तोक्त्या सर्वसंमतत्वात्। चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्या आलिङ्गनोदामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम्' इत्यलंकारसर्वस्वकारोदा