SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ उत्तरार्धे निन्दास्तुतिभ्यां स्तुत्यादि सिद्धिर्व्याजस्तुतिर्मता । तमो हत्वापि बोधेन हा स्वभानमपि क्षतम् ॥ १९७ ॥ किं वर्णयामि संसार तव संसारतामहम् । यत्रेशातिरपि प्रायो दुःखायैव वियोगतः ॥ १९८ ॥ हरणच्छायायाः कुवलयानन्देऽपि 'नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ' इति पूर्वपयायो कोदाहरणेऽपि दृष्टत्वाच्च । अर्थचौर्य हि तत् । यथा - ' - 'महान्तं विश्वासं तव चरणपङ्केरुहयुगे निधायान्यन्नैवाश्रितमिह मया दैवतमुमे । तथापि त्वचेतो यदि मयि न जायेत सदयं निरालम्बो लम्बोदरजननि कं यामि शरणम्' इति श्रीभगवत्पादीयसौभाग्यलहरीपद्यार्थस्य । 'तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः । इदानीमौदास्यं यदि भजसि भागीरथ तदा निराधारो हा रोदिमि कथय केषामिह पुर:' इति गङ्गालहरीपये संग्रथनं जगन्नाथीयम् ॥ १९६ ॥ एवं व्याजेष्टसाधनरूपं द्वितीयपर्यायोक्त प्रसक्कामिदानीं व्याजस्तुतिं लक्षयति — निन्देत्याद्यर्धेनैव । आदिना निन्दा | सिद्धिपदेन पर्यवसानम् । एवंच यत्र निन्दामुखेन स्तुतिः पर्यवस्यति स्तुतिमुखेन निन्दा वा पर्यवस्यति सा व्याजस्तुतिः । व्याजेन निन्दामिषेण स्तुतिर्व्याजापर्यवसितनिन्दात्वेन मिषरूपा वा स्तुतिरिति योगवृत्त्यापि यथार्थनाम्रयलंकृतिरिति तलक्षणं सिद्ध्यति । तदुक्तं कुवलयानन्दे – 'उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः । कः स्वर्धुनि विवेकस्ते पापिनो नयसे दिवम्' । 'साधु दूति पुनः साधु कर्तव्यं किमतः । परम् । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि' इति । तामुदाहरत्यायामर्धेनैव । तो हृत्वापीत्यादिना । यथा जाग्रत्कालिकस्थूल देहादिसंघातावच्छिन्नचैतन्यविषयकः प्रबोधः स्वप्न प्रयोजक सुषुप्त्याकारपरिणतावस्थाज्ञानरूपं तमः प्रभञ्जय व्या. वहारिकं प्रपञ्चं प्रमापयतीति प्रसिद्धमेव । तथा तु प्रकृतेन अद्वैतब्रह्मात्मैक्य. विषयकेन बोधेन नैव कृतं किंतु श्रीगुरुचरणविचारित वेदान्तमहावाक्यजेन खेद्धेन । तमः सव्याप्यकार्यकं मूलाज्ञानं हत्वापि बाधित्वापि । हेति खेदे । स्वभानमपि अहं ब्रह्मज्ञानवानस्मीति बोधविषयकभानमपि क्षतम् । एवंच यत्र स्वविषयकभानस्यापि बाधस्तत्र परविषयकस्य तस्यासौ कैमुत्यसिद्ध एवेति किमनेन बोधेन कृतमिति यथाश्रुते निन्दया । 'यस्याऽमतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्' इत्यादिश्रुतिसहस्रसिद्धफलव्याप्त्यभावोपलक्षिताद्वैतसच्चिदानन्द ब्रह्मात्मेतरयावदृश्यबाधफलकतया तत्स्तुतिरेव पर्यवस्यतीति लक्षणसंगतिः ॥ १९७ ॥ अथ द्वितीयां तामुदाहरतिकिं वर्णयामीति । संसारतां सम्यक् सारवत्ताम् । यत्र संसारे । प्रायः पदमभेदाप्तिव्युदासाय । एवंचेयं स्तुतिरपि निन्दैकपर्यवसायित्वाद्याजस्तुतिरेवेति लक्षणसंगतिः । यत्त्वत्र रसगङ्गाधरकारैः कुवलयानन्दीयानि अन्यनिन्दयान्यस्तुतेरन्यस्तुल्यान्यनिन्दाया अन्यस्तुत्यान्यस्तुतेश्व व्याजस्तुतित्वपराण्युदाहरणानि भ ४७४
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy