SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । यत्रान्यनिन्दाद्यैरस्मादन्यस्तुत्यादि साप्यसौ। धिनागं नौमि विद्वांसं धन्यश्चन्द्रस्तदास्यरुक् ॥ १९९ ॥ _ व्याजनिन्दा तु यत्रान्यनिन्दयान्यस्य सा मता। आशीं विहाय सर्पाणां जिह्वाच्छित्कि न निन्द्यते ॥२०० ॥ नयन्तरतयोकत्वात्कथंचिदङ्गीकृत्यापि 'अर्ध दानववैरिणा गिरिजयाप्यधैं शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति । गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां च भिक्षाटनम्' इति राजस्तुत्या तन्निन्दोदाहरणे यत्सर्वज्ञत्वादिप्रतीतिविरोधादिदूषणमुक्तं तद्वक्तुर्दरिद्रसंतापपोषकत्वाद्रूषणमेव ॥ १९८ ॥ नन्वेवं चेत्तर्हि पर्यायोक्तवदुक्तरूपा त्रिविधा व्याजस्तुतिरपि निरुक्तद्विविधव्याजस्तु तेरन्यैव कुवलयानन्दकारसंमता वक्तव्या । तथाच व्याजस्तुतिपदशक्यतावच्छिन्नत्वेन तदैक्येऽप्यवान्तरभेदात्तत्पञ्चविधलं स्यादित्याशङ्कय चमत्कारातिशयादिष्टमेवास्तीति समादधस्तद्भेदत्रयलक्षणं संक्षिपतियत्रेत्यर्धेनैव । अन्यनिन्दाद्यैः। आद्यपदेन तद्भिन्नस्तुतिया । बहुवचनं तु स्तुतिप्रयोजकस्तुत्यन्तरसंग्रहार्थम् । अस्मात्प्रकृतानिन्द्यादेरित्यर्थः । अन्यस्तुत्यादि । आदिना निन्दास्तुती ग्राह्ये । एवंच यत्र अन्यनिन्दया तदितरस्तुतिः तथा अन्यस्तुत्या तदितरनिन्दा तद्वदन्यस्तुत्या तदितरस्तुतिरेव । सापि असौ व्याजस्तुतिरेव श्रीमदप्पय्यदीक्षितसंमतास्तीत्यर्थः । तां त्रिविधामप्युदाहरति-धिग्रागमित्या. द्यर्धेनैव । अत्र रागनिन्दया विरागस्तुतिर्विद्वस्तुत्या मूर्खनिन्दा चन्द्रस्तुत्या वि. द्वद्वदनस्तुतिश्चेति क्रमादुदाहरणत्रयं बोध्यम् । यथावा तत्रयमपि क्रमात्कुवलयानन्द एव–'कस्त्वं वानर रामराजभवने लेखार्थसंवाहको यातः कुत्र पुरागतः स हनुमानिर्दग्धलंकापुरः । बद्धो राक्षससूनुनेति बहुशः संताडितस्तर्जितः सव्रीडात्तपराभवो वनमृगः कुत्रेति न ज्ञायते' । 'यद्वकं मुहुरीक्षसे न धनिनां ब्रूषे न चा. टून्मृषा नैषां गर्ववचः शृणोषि न च तान् प्रत्याशया धावसि । काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः'। 'शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः। तरुणि येन तवा. धरपाटलं दशति बिम्बफलं शुकशावकः' इति च ॥ १९९ ॥ एवं तत्समतामेव व्याजनिन्दामपि लक्षयति-व्याजेति । अन्यस्य तद्भिन्नस्य । तामुदाहरतिआशीमिति । आशीविष इत्यमराद्विषाधारदंष्ट्रामित्यर्थः । जिह्वाच्छित् कावे. चाणां दर्भोपरि पतितामृतावलेहनकाले तद्रसनाच्छेदनार्थ तत्र वज्रप्रेरक इन्द्र इत्यर्थः । प्रसिद्धमेवेदं महाभारतादौ । एवं चात्रेन्द्रनिन्दया सर्पनिन्देति लक्षणसं. गतिः। तदुक्तं कुवलयानन्दे-'निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गीयते। विधे स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः' । यथावा-'विधिरेव विशेषगर्हणीयः करट त्वं रट कस्तवापराधः । सहकारतरौ चकार योऽसौ सहवासं सरलेन कोकिलेन' । यथावा-'लावण्यद्रविणव्ययो न गणितः क्लेशो महानर्जितः खच्छन्दं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy