SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । उत्तरार्षे निषेधश्चारुराक्षेपः सोऽनेको मतभेदतः। अस्तु चिन्तामणिमेऽसावथवास्ते गुरोः कृपा ॥ २०१॥ चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि खगुणानुरूपरमणालाभावराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्वीमिमां तन्वता' इति च । एतन्मूलं तु पूर्वतन्त्रे नहि निन्दान्यायमूलीभूतमुदितानुदितहोमप्राशस्त्यादिश्रवणमेव । विस्खरस्तु कुवलयानन्दादावेव ॥ २०० ॥ एवं व्याजनिन्दानिरूपणप्रसक्तमाक्षेपालंकारं सामान्यतो लक्षयति-निषेध इत्यर्धेन । 'सूच्यग्रेण सुतीक्ष्णेन यावद्भिद्यति मेदिनी । अहं तावन्न दास्यामि विना युद्धेन केशव' इत्यादिनिषेधव्युदासाचे विशिनष्टि-चारुरिति । चारुत्वमत्र श्रवणमात्रेण चमत्कारकारकत्वमेव । एवंच खश्रवणमात्रेणानन्दजनकलौकिकनिषेधत्वमाक्षेपालंकारसामान्यलक्षणं पर्यवस्यति । अत्र लौकिकपदेन 'स एष नेति नेत्यात्मा' इत्यादिवैदिकनिषेधव्यावृत्त्या काव्यैकनिषेधसंग्रहः । नन्वेवं चेत्तर्हि तद्विशेषाः कतिविधाः सन्तीत्याशङ्कय मतभेदेन तस्यानेकप्रकारकत्वमेवेत्याह-स इत्यादिना । एवंच तत्तन्मतभेदसिद्धतत्प्रकारमेदस्थानतिप्रयोजकत्वादिहासंग्राह्यत्वमेवेतिभावः। तमुदाहरति-अस्त्वित्यर्धेनैव। असौ सर्वेष्टदत्वेन शास्त्रप्रसिद्धः। तदुक्तं रसगङ्गाधरे मतभेदं निरूप्य 'इतरे तु निषेधमात्रमाक्षेपः । चमत्कारित्वं चालंकारसामान्यलक्षणप्राप्तमेव । तच्च व्यङ्गयार्थे सति संभवतीत्यतो व्यङ्गयो निषेधः सर्वोप्याक्षेपालंकारः' इति । तथाच प्रकृतोदा. हरणे चिन्तितमात्रेण सर्वेष्टदातृत्वेन चिन्तामणिः प्रथमं प्रार्थितः पश्चाद्विचारे श्रीसद्गुरोः कृपायाः सततसर्वेष्टकारित्वसमनुभवात्तत्कैमर्थ्यमनुसंधाय मास्तु स इति व्यञ्जनायास्तनिषेधबोधनायाथवेत्यादिचतुर्थपाद इति लक्षणसंगतिः। नचैवं यदि तदा त्वयापि लक्षणं 'व्यङ्गयो निषेध आक्षेपः' इत्येवं किमिति न कृतमिति वाच्यम् । वक्ष्यमाणस्य तद्भेदविशेषस्यासंग्रहापत्तेः। स च दर्शितः कुवलयानन्दकारैर्द्वितीयत्वेन-'आक्षेपः खयमुक्तस्य प्रतिषेधो विचारणात् । चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखं' इति प्रथमं तत्प्रकारमुक्त्वा-'निषेधाभासमाक्षेपं बुधाः केच. न मन्वते । नाहं दूती तनोस्तापस्तस्याः कालानलोपमः' । केचिदलंकारसर्वखका. रादय इत्थमाहुः-'न निषेधमात्रमाक्षेपः किंतु यो निषेधो बाधितः समर्थान्तरपर्यवसितः कंचिद्विशेषमाक्षिपति स आक्षेपः । यथा दूत्या उक्तौ नाहं दूतीति निषोधो बाधितत्वादाभासरूपः संघटनकालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्निदानीमेवागत्य नायिकोज्जीवनीयेति विशेषमाक्षिपतीति । एवं चेह निषे. धस्याभासत्वेन व्यङ्गयत्वाभावः स्फुट एव । चारुत्वं तूक्तविधया चमत्कारातिश. यादेवेति ध्येयम् । यथावा तत्रैवाने-'आक्षेपोऽन्यो विधौ व्यके प्रतिषेधे तिरोहिते । गच्छ गच्छसि चेत्कान्त तत्रैव स्याजनिर्मम' इत्यादि । एवं च साहित्य. दर्पणोक्तविद्ध्याभासालंकारस्याप्यत्रैवान्तर्भावो व्याख्यातः। तत्रापि यथा 'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy