________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
४७७ विरोधस्याल्पभासश्चेद्विरोधाभास उच्यते। शुद्धः श्लेषादिमूलश्चेत्यसौ द्विविध इर्यते ॥ २०२ ॥ दृश्यमप्यास दृङमात्रं मेऽस्य दृयात्रदर्शने ।
सुप्त एव प्रबुद्धोऽयं द्विजराजस्त्रयीतनुः ॥२०३ ॥ भवान्' इत्येतत्पद्यस्यैव समुदाहृतत्वाद्विशेषाभावाच्च । यथावा रसगङ्गाधरे-'अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा विलीनो लोकानां सह नयनतापोऽपि तिमिरैः । तवास्मिन्पीयूषं किरति परितस्तन्वि वदने कुतोहेतोश्चेतो विधुरयमुदेति प्रतिदिनम्' इति । यथावा तत्रैवाग्रे–'किं निःशकं शेषे शेषे वयसि त्वमागतो मृत्युः । अथवा सुखं शयीथा जननी जागर्ति जाह्नवी निकटे' । 'रीतिं गिराममृतवृष्टिकरी त्वदीयां तां चाकृतिं कृतिवरैरभिनन्दनीयाम् । लोकोत्तरामथ कृतिं करुणारसाद्रों ज्ञातुं न कस्यचिदुदेति मनः प्रसादम्' । अत्र करिष्यमाणमनःप्रसादस्य निषेधो वर्णनीयस्यानिर्वाच्यतां बोधयितुमिति। अयमपि निषेधः प्राग्वदेवाव्यङ्गयोऽपि चारुत्वेन संग्राह्य एव । यथावा तत्रैवाग्रे–'तपोनिधे कौशिक रामचन्द्रं निनीषसे चेन्नय किं विकल्पैः।निरन्तरालोकनपुण्यधन्या भवन्तु वन्या इह जीवभाजः' । विस्तरस्तु तत्रैवानुसंधेय इति गौरवभयादुपरम्यते ॥ २०१॥ एवमाक्षेपालंकारस्य निषेधघटितत्वात्तत्प्रतिपादनप्रसङ्गसंगतं तन्मूलकं विरोधाभासालंकारं लक्षयतिविरोधस्येत्यर्धेन । तदुक्तं रसगङ्गाधरे-'विरोधाभासविषयकप्राच्यादिमतभेदप्र. पञ्चानन्तरम् । अयं च विरोधालंकारः कुवलयानन्दकृता उत्प्रेक्षाशिरस्कोऽप्युदाहृतः। यथा-'प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता।अमित्रजिन्मित्रजिदोजसा स यद्विचारहवचारदृगप्यवर्तत' इति तस्य ससंमतिकमलंकारान्तरमिश्रत्व. मप्यभिधाय । विरोधप्रतीत्यनन्तरं यत्रार्थान्तरप्रतीत्या विरोधाभास इष्यत इति । कुवलयानन्देपि-'आभासत्वे विरोधस्य विरोधाभास इष्यते । विनापि तन्वि हारेण वक्षोजी तव हारिणौ' इति । अस्य प्राचीनमतेऽनेकविधत्वेऽपि तस्यानतिप्रयोजकत्वाद्वैविध्यमेवाभिधत्ते-शुद्ध इत्यादिना । एतदप्युक्तं रसगङ्गाधर एव विरोधाभासप्रकरणे । वस्तुतो जात्यादिभेदानामहृद्यत्वात् शुद्धत्वश्लेषमूलत्वाभ्यां द्विविधो ज्ञेय इति । आदिनोत्प्रेक्षादिकमप्युदाहृतदिशैव बोध्यम् ॥ २०२ ॥ तत्र शुद्धमादावुदाहरति-दृश्यमपीत्यादिपूर्वार्धेन । मे मम अस्य पुरोवर्तित्वेन दृश्यस्यैव कस्यचित्पुरुषस्य । दृयात्रेति। दृष्टिमात्रज्ञाने सतीत्यर्थः। दृश्यमपि दर्शनयोग्यमपि वस्तुजातम् । दृङ्मानं दृष्टयेकरूपमासेति संबन्धः। एवं चेदं सर्वथा विरुद्धमेव । नहि देवदत्तस्य यज्ञदत्तसंबन्धि चक्षुषः साक्षात्कारे सति यज्ञदत्ततद्भिन्नघटादिसकलं दृष्टिविषयीभूतं वस्तु खतदृष्टयन्यतरदृष्टिमात्रखरूपं संपद्यत इति विरोधः स्फुट एवाद्भुतरसव्यञ्जकेनापिना द्योतितः । अस्याभासत्वं तु यथा-अस्य स्मर्यमाणत्वेन साक्षिप्रत्यक्षस्य श्रीगुरोः दृड्यात्रेति। कृपापागावलोकने सतीत्यर्थः । मे मम । दृश्यमपि यावद्वैतेन्द्रजालमपीति यावत् । एतेनासंभा