SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४७८ साहित्यसारम् । [उत्तरार्धे नन्वत्र कत्यपेरा नच ये कोशगा इति । वाचकत्वं निपातानां न शाब्दिकनये यतः ॥ २०४ ॥ तन्न लक्षकताप्यस्य नापि द्योतकतास्त्यतः। उक्तोदाहरणादीदं व सियेदत उच्यते ॥ २०५ ॥ वितत्वं व्यज्यते । दृड्यानं अद्वैतसच्चिदानन्दात्मैकरसमासेत्यन्वयः । एवंच प्राक् प्रतीतो विरोधस्त्वाभासमात्र एवेति भावः। यथावा काव्यप्रकाशे-'सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् । अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम्। पेशलमपि खलवचनं दहति तरां मानसं सुंतत्त्वविदाम् । परुषमपि सुजनवाक्यं मलयजरसवत्प्रमोदयति' इति च । रसगङ्गाधरेपि. 'हर्षयन्ति क्षणादेव क्षणादेव दहन्ति च । यूनः स्मरपराधीनानिर्दया हन्त योषितः' इति । सृजति चेत्यादि । अवसरेति । 'अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदता. दर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च' इत्यमरात्कालवशतः सोऽपि जनार्दनः 'शफरः शफरीद्वयोः' इत्यपि तत एव मत्स्य इत्यर्थः । एवं श्लेषादिमूलमपि तमुदाहरति-सुप्तएवेत्याद्युत्तरार्धेन । अयं पुरोवर्ती कश्चित्पुरुषः सुप्तः निद्रित एव प्रबुद्धोऽस्तीति विरोधः स्फुट एव । नहि यो निद्राणः स जागर्तीति । अस्याभासत्वं तु। अयं प्रागुक्तः श्रीगुरुः सुप्त एव 'यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः' इति स्मृतेश्यविषयकानादरेण तत्र सुप्त एव प्रबुद्धः । 'या निशा सर्वभूतानां तस्यां जागति संयमी' इति च तदुक्तेरद्वैतात्मविषयकप्रबोधवानिति । एवं द्विजेत्यादि । नहि चन्द्रः सूर्यों भवतीति विरोधः । तस्याभासत्वं तु अतएव श्रीगुरुर्द्विजराज इत्यादि ॥ २०३ ॥ ननु दृश्यमप्यास दृङ्मात्रमित्युक्तोदाहरणे निरर्थक एवापिशब्दः किमिति प्रत्युक्तः। तत्सार्थकत्वे किमसावे. कार्थोऽनेकार्थो वा । नाद्यः। प्रमाणाभावात् । अतएव नान्त्योऽपीति गूढाभिसंधि. स्तत्संख्यां पृच्छति-नन्विति । अत्र अलंकारशास्त्रे तत्रामरादिकोशप्रसिद्ध्या प्रश्नानवसर एवेत्याशङ्कां शमयति-नचेत्यादिना । तत्र हेतुं स्पष्टयतिवाचकत्वमित्याद्युत्तरार्धेन । यतः शाब्दिकनये वैयाकरणसिद्धान्त इत्यर्थः । निपातानां चादीनां प्रादीनामपीत्यर्थः । वाचकत्वं शक्तत्वं नेत्यन्वयः। तदुक्तं रसगङ्गाधरे विरोधाभासालंकारप्रकरण एव–'यत्रापिशब्दादिविरोधस्य द्योतकस्तत्र विरोधः शाब्दोऽन्यत्र खार्थ इति तावत्प्राचां सिद्धान्त इत्युक्त्वाऽग्रे नन्वपिशब्दा. दीनां प्रयोगे शाब्दो विरोधो भासत इति तथाप्यसंगतं तत् । निपातानां शाब्दिकनये शकेरखीकारादिति ॥ २०४ ॥ ननु मास्तु निपातानां वाचकता लक्षक तायां किं बाधकमित्याशङ्कय शक्यसंबन्धो लक्षणेति सामान्यतस्तार्किकादिसंमतल. क्षणालक्षणेन तस्याः शक्तिपूर्वकत्वनियमाद्वाचकत्वाभावादेवापेर्लक्षकतापि नैवास्तीत्याह-तदित्यादिना । तत्तस्माद्वाचकत्वाभावादेव हेतोरप्यपेर्लक्षकतापि विरोधादिलक्षकत्वमपि नैवास्तीति संबन्धः। नन्वेवमपि द्योतकतास्त्वित्याशङ्कय
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy