Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 486
________________ ४७. साहित्यसारम्। [ उत्तरार्धे तिर्यक्ष्वपि तरः सिंहो भगवानपि शत्रुहृत् । यत्सारूप्यमवाप्यैव समभूद्भक्तवत्सलः ॥ १९३॥ वर्येन वर्ण्यव्यक्तौ स्याटेक्षितःप्रस्तुताकुरः।। स्वर्द्धमौलेरलौ गुअत्यपि मुग्धासि मालति ॥ १९४ ॥ प्रस्तुताङ्कुर इति कुवलयानन्दायुक्तमुपेक्षणीयम् । किंचिद्वैलक्षण्यमात्रेणैवालंकारान्तरत्वकल्पने वाग्भङ्गीनामानन्यादलंकारानन्यप्रसङ्ग इत्यसकृदावेदितत्वादिति । अत्रोच्यते । यदिदं यत्र चेत्यादिना भवता व्यवस्थाप्य कुवल. यानन्दोपेक्षणमाज्ञप्तं तत्त्वदन्थेन सहैवाग्रिमेण विरुद्धम् । तथाहि अग्रे त्वयैवोकम् । एवं च वाच्येन व्यक्तेन वा अप्रस्तुतेन वाच्यं व्यकं वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रशस्यते साऽप्रस्तुतप्रशंसेति तल्लक्षणपरिष्करणं, तथा अप्रस्तुतप्रशंसायां प्रस्तुतं व्यङ्गयमिति निर्विवादमिति च तदने खरहस्यकथनमपि च कृतम् । तदुक्तरीत्या मलिनेपीत्यादिपद्ये 'आपेदिरेऽम्बरपथं परितः पतङ्गा भृङ्गारसालमुकुलानि समाश्रयन्ते । संकोचमञ्चति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु' इति तावक एव तादृक्पद्यान्तरे चोभयोरपि प्रस्तुतत्वेनायु. मतोऽभिमतत्वे कथं संगच्छेत । नहि कमलिनीभ्रमरादिरप्रस्तुतो वाच्योऽर्थोऽपि लक्षणे संगृहीतः, नाप्यव्यङ्गयस्य शक्त्येकगम्यस्य तस्य प्रकृतत्वं संभवति । उक्तनियमभङ्गापत्तेः । किंच वाच्यं व्यक्तं वा प्रस्तुतमिति परिष्कारे वाच्यस्यापि प्रस्तुतत्वकथनं प्रस्तुतव्यङ्गयमिति निर्विवादमित्युत्तरग्रन्थविरुद्धं चेति निर्मत्सराः सूरीश्वरा एव विचारयन्त्विति दिक् ॥ १९२ ॥ प्रोक्तोदाहरणे भानोर्यावच्चक्षुष्मरसुलभत्वेन परमदुर्लभसद्गुरुनिदर्शनानौचित्याखारस्यादुदाहरणान्तरमाह-तिर्यश्वपीति । पक्षे शत्रुर्मोहः ॥ १९३ ॥ एवमप्रस्तुतप्रशंसां निरूप्य तत्प्रसङ्गसंगन्तं प्राचामसंमतमपि कुवलयानन्दे श्रीमदप्पय्यदीक्षितैः-'प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः। किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेद्धया' इत्यादिना प्रतिपा, दितं प्रस्तुताङ्करालंकारं लक्षयति-वर्णेनेत्यर्धेनैव । कवेरन्यस्य वा वक्तुर्वर्णयितुमिष्टेन प्रस्तुतव्यवहारेणेत्यर्थः । वयेति प्रस्तुतव्यवहारव्यञ्जनायां सत्यामित्ये. तत् । दैक्षितः निरुक्तरीत्या श्रीमदप्पय्यदीक्षितकसमंत इति यावत् । प्रस्तुतेति। प्रस्तुताङ्कुरनामकोऽलंकारः स्यादिति संबन्धः । एवंच शक्तिवृत्तिप्रतिपाद्यप्रकृतव्यवहारकरणकव्यञ्जनावृत्तिद्वारकप्रतिपद्यमानप्रस्तुतव्यवहारत्वं प्रस्तुताङ्कुरालंकारत्वमिति तत्सामान्यलक्षणं पर्यवसितम् । तमुदाहरति-स्वरित्यर्धेनैव । कल्प. द्रुमकुसुमशेखरसंबन्धिनीत्यर्थः । अलौ भ्रमरे गुञ्जत्यपि त्वद्विकासनाभ्यर्थनार्थ गुञ्जारवमपि कुर्वति सतीत्यर्थः । एतेनात्यादरः सूच्यते । रे मालति, त्वं मुग्धैवास्य विकसितैव वर्तस इत्यन्वयः। पक्षे इदं हि वृन्दावने मानवती राधिका प्रति मालतीनिकुञ्ज गुञ्जद्भङ्गकोरकपुजेऽनुनयत्यपि भगवति अप्रसन्नां तां प्रति तत्सखीवाक्यं । तत्र मालतीमुकुल एव भूयः परिभ्रमणेन गुञ्जभमरवरां मालती.

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576