Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 499
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ४८३ हत्वापीति स्मृतावेवं पुराणे ज्ञानिनामपि । चेतांसीत्यादिके काव्ये ब्रह्मापीत्यत्र निर्णयः ॥२२१ ॥ विरोधाभासमुख्यषु त्वलंकारेषु यादृशात् । अप्यर्थात्स्याच्चमत्कारः स एवैभ्यः प्रगृह्यताम् ॥ २२२ ॥ कार्यकारणभावस्य वैचित्र्यं स्याद्विभावना । विनैव कारणं कार्यमाद्यास्येन्दुर्निशां विना ॥ २२३॥ प्रागृह्णात्ततोजस्तूपरः समभवत्त ५ स्वायै देवताया आलभत ततो वै स प्रजाः पशनसृजत' इति तैत्तिरीयकसंहिताया द्वितीयाष्टकप्रथमप्रश्नप्रथमानुवाके समा. नानात्पूर्वतन्त्रे समुन्नीते आत्मवपोत्सादनेनापि यागः कर्तव्य इति वाक्येऽप्येतादृश एवात्मवपोत्सादने मरणप्रसङ्गेन कञभावरूपविरोधात्पशुवपोत्सादनेन यागोऽवश्यं कर्तव्य एवेत्यर्थः स्वीकृतस्तद्वत्प्रकृतेऽपि मुक्तेतरः सङ्गात्पतत्येवेति खीकारे किं बाधकम् । अपिशब्दसमभिव्याहारस्य यथाश्रुतविरोधस्य चोभयत्रापि तुल्यत्वादित्याशयेन साक्षेपं प्रतिवादिनं प्रति पृच्छति-स्ववति । अप्यर्थः अपिशब्दार्थः । अन्येति । आत्मेतरच्छागादिपशुवपोत्खादनपूर्वकावश्ययागानुष्ठानावधारणमित्यर्थः । शिष्टं तु स्पष्टमेव ॥ २२० ॥ न केवलं श्रुतावेवेदृशो नियमः किंतु स्मृतिपुराणकाव्येष्वपीत्याह-हत्वापितीति । 'यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमॉल्लोकान हन्ति न निबध्यते' इति भगवद्गीताख्यस्मृतावित्यर्थः । 'ज्ञानिनामपि चेतांसि देवी भगवती हि सा। बलादाकृष्य मोहाय महामाया प्रयच्छति' इति मार्कण्डेयाख्ये पुराण इत्यर्थः । तत्र देवीमाहात्म्यचन्द्रिकाख्ये तयाख्याने मयैवमेवोपपादितमिति बोध्यम् । काव्ये भर्तृहरेनीतिशतकात्मके । 'अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति' इत्यत्रेति यावत् । एवं प्रागुक्त एव निर्णय इत्यन्वयः ॥ २२१ ॥ प्रकृते कथमित्यत आह-विरोधेति । एभ्यो निरुक्तार्थेभ्यः सकाशादित्यर्थः ॥ २२२ ॥ एवं विरोधाभासप्रसङ्गतोऽपिशब्दा. र्थविचारं प्रपश्य सिंहावलोकनन्यायेन विरोधाभासाद्येष्वपि तद्हणव्यवस्थाप्यविरोधनिरूपणप्रसक्तामेवेदानीं षोढा विभावनां निरूपयितुमुपमारूपकादिवदादौ तत्सामान्यं लक्षयति-कार्येत्यर्धेनैव । इदं हि षोढा विभावनास्वप्यनुगतं भवति । एतेन रसगङ्गाधरकारैर्विभावनाया उपमारूपकादिवत्सामान्यलक्षणाभा. वादिना कुवलयानन्दोकान् षटुप्रकारान् संदूष्य यत्पुनः प्रकारान्तरेण तद्यव. स्थापनमपि कृतं तत्प्रत्युक्तम् । निरुक्तरीत्या तत्सामान्यलक्षणसिद्धेरिति बोध्यम् । तत्र कुवलयानन्दकारिकानुसारेणैव प्रथमां विभावनां लक्षयति-विनैवेत्या. दिना । अथ तामुदाहरति-आस्येत्यादिशेषेण । आस्येन्दुः प्रेयसीमुखचन्द्रः निशां विनैव कारणीभूतां रात्रिमन्तरैव । उदित इति शेषः । अयं भावःराकामृतद्युतिरेवात्र प्रियामुखरूपकार्हः स च निशारम्भं विना नैवोदेतीति तस्यां

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576