________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
४८३ हत्वापीति स्मृतावेवं पुराणे ज्ञानिनामपि । चेतांसीत्यादिके काव्ये ब्रह्मापीत्यत्र निर्णयः ॥२२१ ॥ विरोधाभासमुख्यषु त्वलंकारेषु यादृशात् । अप्यर्थात्स्याच्चमत्कारः स एवैभ्यः प्रगृह्यताम् ॥ २२२ ॥ कार्यकारणभावस्य वैचित्र्यं स्याद्विभावना ।
विनैव कारणं कार्यमाद्यास्येन्दुर्निशां विना ॥ २२३॥ प्रागृह्णात्ततोजस्तूपरः समभवत्त ५ स्वायै देवताया आलभत ततो वै स प्रजाः पशनसृजत' इति तैत्तिरीयकसंहिताया द्वितीयाष्टकप्रथमप्रश्नप्रथमानुवाके समा. नानात्पूर्वतन्त्रे समुन्नीते आत्मवपोत्सादनेनापि यागः कर्तव्य इति वाक्येऽप्येतादृश एवात्मवपोत्सादने मरणप्रसङ्गेन कञभावरूपविरोधात्पशुवपोत्सादनेन यागोऽवश्यं कर्तव्य एवेत्यर्थः स्वीकृतस्तद्वत्प्रकृतेऽपि मुक्तेतरः सङ्गात्पतत्येवेति खीकारे किं बाधकम् । अपिशब्दसमभिव्याहारस्य यथाश्रुतविरोधस्य चोभयत्रापि तुल्यत्वादित्याशयेन साक्षेपं प्रतिवादिनं प्रति पृच्छति-स्ववति । अप्यर्थः अपिशब्दार्थः । अन्येति । आत्मेतरच्छागादिपशुवपोत्खादनपूर्वकावश्ययागानुष्ठानावधारणमित्यर्थः । शिष्टं तु स्पष्टमेव ॥ २२० ॥ न केवलं श्रुतावेवेदृशो नियमः किंतु स्मृतिपुराणकाव्येष्वपीत्याह-हत्वापितीति । 'यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमॉल्लोकान हन्ति न निबध्यते' इति भगवद्गीताख्यस्मृतावित्यर्थः । 'ज्ञानिनामपि चेतांसि देवी भगवती हि सा। बलादाकृष्य मोहाय महामाया प्रयच्छति' इति मार्कण्डेयाख्ये पुराण इत्यर्थः । तत्र देवीमाहात्म्यचन्द्रिकाख्ये तयाख्याने मयैवमेवोपपादितमिति बोध्यम् । काव्ये भर्तृहरेनीतिशतकात्मके । 'अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति' इत्यत्रेति यावत् । एवं प्रागुक्त एव निर्णय इत्यन्वयः ॥ २२१ ॥ प्रकृते कथमित्यत आह-विरोधेति । एभ्यो निरुक्तार्थेभ्यः सकाशादित्यर्थः ॥ २२२ ॥ एवं विरोधाभासप्रसङ्गतोऽपिशब्दा. र्थविचारं प्रपश्य सिंहावलोकनन्यायेन विरोधाभासाद्येष्वपि तद्हणव्यवस्थाप्यविरोधनिरूपणप्रसक्तामेवेदानीं षोढा विभावनां निरूपयितुमुपमारूपकादिवदादौ तत्सामान्यं लक्षयति-कार्येत्यर्धेनैव । इदं हि षोढा विभावनास्वप्यनुगतं भवति । एतेन रसगङ्गाधरकारैर्विभावनाया उपमारूपकादिवत्सामान्यलक्षणाभा. वादिना कुवलयानन्दोकान् षटुप्रकारान् संदूष्य यत्पुनः प्रकारान्तरेण तद्यव. स्थापनमपि कृतं तत्प्रत्युक्तम् । निरुक्तरीत्या तत्सामान्यलक्षणसिद्धेरिति बोध्यम् । तत्र कुवलयानन्दकारिकानुसारेणैव प्रथमां विभावनां लक्षयति-विनैवेत्या. दिना । अथ तामुदाहरति-आस्येत्यादिशेषेण । आस्येन्दुः प्रेयसीमुखचन्द्रः निशां विनैव कारणीभूतां रात्रिमन्तरैव । उदित इति शेषः । अयं भावःराकामृतद्युतिरेवात्र प्रियामुखरूपकार्हः स च निशारम्भं विना नैवोदेतीति तस्यां