________________
४८४
साहित्यसारम् ।
[उत्तरार्धे द्वितीया कारणासामग्येऽपि कार्य विभावना। कटाक्षैरेव राधाऽसौ बिभेद हृदयं हरेः ॥ २२४ ॥ प्रतिबन्धेऽपि चेत्कार्य तृतीया स्याद्विभावना। शमक्षीरोदमनोऽपि दह्यते स्मरवह्निना ॥ २२५ ॥ विभावना चतुर्थी तु कार्योत्पत्तावकारणात् । कमलाञ्चन्द्रिकोदेति प्रकामं सर्वदाप्यहो ॥ २२६ ॥ विरुद्धात्कारणात्कार्ये पञ्चमी स्याद्विभावना । दाह विरहे सीतां हा हन्त मलयानिलः ॥२२७ ॥
तदुदयकारणत्वेऽप्यत्र तदभावेऽपि प्रेयस्याः सार्वदिकसुप्रसन्नास्यत्वात्तन्मुखता. दात्म्यापनचन्द्रोदयलक्षणं कार्यमभिवर्णितमिति प्रथमविभावनेयं भवतीति लक्षणसंगतिरिति । तदुक्तं कुवलयानन्दे–'विभावना विनापि स्यात्कारणं कार्यजन्म चेत् । अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम्' इति । यथावा साहित्यदपणे-'अनायासकृशं मध्यमशङ्कातरले दृशौ । अभूषणमनोहारि वपुर्वयसि सुभ्रवः' इति । यथावा रसगङ्गाधरे-'विनैव शस्त्रं हृदयानि यूनां विवेकभाजामपि दारयन्त्यः । अनल्पमायामयवल्गुलीला जयन्ति नीलाब्जदलायताक्ष्यः' । 'निरुपादानसंसारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने । 'यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः । दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते' । अत्र हि उपात्ते यौवने दाहहेतुत्वं पर्यवस्यतीति । इह विस्तरस्तु तत एवावगन्तव्य इत्यलं प्रसक्तानुप्रसक्तया ॥ २२३ ॥ अथ 'हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता । अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः' इति कुवलयानन्दोक्तद्वितीय विभावनां लक्षयति-द्वितीयेति । कारणेति । कारणानामुपादानादीनामसमग्रत्वे सत्थपीत्यर्थः । तामुदाहरति-कटाक्षरेवेति । अवधारणेन साधनान्तरव्युदासः ॥ २२४॥ एवं 'कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके । नरेन्द्रानेव ते राजन्दशत्यसिभुजङ्गमः' इति तदुक्तां तृतीयां तां लक्षयति-प्रतिबन्धेऽपीति । तामुदाहरति-शमेति । प्रसिद्ध एव तादृशः सौभर्यादिरित्याशयः । यथावा कुवलयानन्दे-'चित्रं तपति राजेन्द्र प्रतापतपनस्तव । अनातपत्रमुत्सृज्य सातपत्रं द्विषद्गणम्' इति ॥ २२५॥ तद्वत् 'अकारणाकार्यजन्म चतुर्थी स्याद्विभावना । शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम्' इति तदुक्तां चतुर्थी तां लक्षयति-विभावनेति । तामुदाहरति-कमलादिति । श्रीगुरुमुखरूपादित्यर्थः । तस्य स्मितपूर्वाभिभाषित्वादिति भावः ॥ २२६ ॥ एवं 'विरुद्धात्कार्यसंपत्तिदृष्टा काचिद्विभावना । शीतांशुकिरणास्तन्वि हन्त संतापयन्ति माम्' इत्यपि तदुक्तां पञ्चमी तां लक्षयति-विरुद्धादिति । तामुदाहरति-- ददाहेति । यथावा कुवलयानन्दे–'अविवेकि कुचद्वन्द्वं हन्तु नाम जत्रयम् ।