SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ] सरसामोदन्याख्यासहितम् । षष्ठी विभावना ज्ञेया कार्यात्कारणजन्म चेत् । श्रीराम विजय स्वद्रः कीर्तिक्षीरोद उद्गतः ॥ २२८ ॥ प्रसिद्धकारणौघस्य सामानाधिकरण्यतः । कार्यानुत्पत्तिरुक्ता चेद्विशेषोक्तिरिष्यते ॥ २२९ ॥ अद्वैतसच्चिदानन्द सगुरो त्वयि सर्वदा । हृदि सत्यपि धिक्कान्तां तच्चिन्तयति संततम् ॥ २३० ॥ कार्यस्यासंभवत्वोक्तिर्दीक्षितेष्टोऽस्त्यसंभवः । द्वैतमेव मृषा कुर्याद्दुरुरित्यास कस्यचित् ॥ २३१ ॥ श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणम्' इति ॥ २२७ ॥ अथ 'कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना । यशःपयोधिरभवत्करकल्पतरोस्तव' इति च तदुक्तां षष्ठीं तां लक्षयति-षष्ठीति । यथावा कुवलयानन्दे - ' जाता लता हि शैले जातु लतायां न जायते शैलः । संप्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम्' इति । यथावा मदीयाद्वैतामृतमजर्याम् – 'विद्युत्पयोधरेऽभूत्कापि न विद्युति पयोधरो दृष्टः । अद्य तु विपरीतमिदं मन्दगविद्युति पयोधरद्वन्द्वम्' इति ॥२२८॥ एवं कार्यकारणभाववैलक्षण्यलक्षणविभावनाप्रतिपादनप्रसङ्गसंगतां 'कार्याजनिविंशषोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत्स्मरदीपे ज्वलत्यपि' इति कुवलयानन्दोक्तां विशेषोक्तिं लक्षयति - प्रसिद्धेति । तदुक्तं रसगङ्गाधरे'प्रसिद्धकारणकलाप सामानाधिकरण्येन वर्ण्यमाना कार्यानुत्पत्तिर्विशेषोक्तिः' इति ॥ २२९ ॥ तामुदाहरति — अद्वैतेति । तत् हृदयतः संततमपि कान्तां रमणीमेव चिन्तयति । अतः तादृशं तत्प्रति धिगस्त्वित्यन्वयः । अप्यन्तं तु सरलमेव । यथावा काव्यप्रकाशे - 'कर्पूर इव दग्धोऽपि शाक्तमान्यो जने जने । नमोस्त्ववार्यवीर्याय तस्मै मकरकेतवे' इति । यथावा साहित्यदर्पणे - ' धनिनोsपि निरुन्मादा युवानोsपि न चञ्चलाः । प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः । अत्र महामहिमशालित्वं निमित्तमुक्तम् । यथावा कुवलयानन्दे - 'अनुरागवती संध्या दिवसस्तत्पुरःसरः। अहो दैवगतिश्चित्रा तथापि न समागमः' इति । यथावा रसगङ्गाधरे - 'उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता । तदपि न हा विधुवदना मानससदनाद्वहिर्याति' । यथावा - 'प्रतिपलम खिलाल्लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि । हा हतकं चित्तमिदं विरमति नाद्यापि विषयेभ्यः' इति । अत्र प्रत्युदाहरणमपि तत्रैव—'दृश्यतेऽनुदिते यस्मिन्नुदिते नैव दृश्यते । जगदेतन्नमस्तस्मै कस्मैचिद्बोधभाखते' इति ॥ २३० ॥ एवं विशेषोक्तिगत कार्यानुत्पत्तिप्रसक्तमसंभचालंकारं ससंमतिकं लक्षयति-- कार्यस्येत्यर्धेन । कार्यस्य असंभवत्वोक्तिरसंभावितत्ववर्णनमित्यर्थः । एतादृश: असंभव एतन्नामकोऽलंकारः दीक्षितेष्टः श्रीमदप्पय्यदीक्षितैकसंमतोऽस्तीत्यर्थः । एवंच कार्य प्रतियोगिका घटमानत्ववर्णनविषयत्वमेवासंभवालंकारत्वमिति तत्सामान्यलक्षणं सिद्ध्यति । तदुक्तं कुवलया W ४८५
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy