________________
૪૮૬
साहित्यसारम् । - [उत्तरार्धे भिन्नदेशे विरुद्धाभे हेतुकार्ये त्वसंगतिः।
संयमः साधितः केशैः श्रुत्यन्तानुभवो दशोः ॥ २३२॥ नन्दे–'असंभवोऽर्थनिष्पत्तेरसंभाव्यत्ववर्णनम्। को वेद गोपशिशुकः शैलमुत्पाटयेदिति' । तमुदाहरति-द्वैतमेवेत्यर्धनैव । गुरुः श्रीमदाचार्यः यथोपनयनो. त्तरं केनचिदाचार्येण मां प्रति वशाखात्मको वेदः समुपदिष्टस्तथा प्रकृतोऽप्यसौ तदर्थ कंचिद्धर्मादिकं शरणागतं मां प्रति ब्रूयादित्येवाश्वासः स्थितः द्वैतमेव सकलं दृश्यमेव मृषा मिथ्या कुर्यादिति वित् संभावनारूपा धीः कस्यास । न कस्यापीति संबन्धः। एतेन तत्राद्वैतब्रह्मात्मबोधद्वारा द्वैतमिथ्यात्वकारकत्वमद्भुतमिति द्योत्यते । यथावा भामिनीविलासे–'निसर्गादारामे तरुकुलसमारोपसुकृती कृती मालाकारो बकुलमपि कुत्रापि निदधे । इदं को जानीते यदयमिह कोणान्तरगतो जगजालं कर्ता कुसुमभरसौरभ्यभरितम्' इति । यद्यपीदं पद्यमन्योक्तिशतकान्तर्गतमप्रस्तुतप्रशंसालंकारघटितत्वेनैव मया प्रणयप्रकाशाख्यतयाख्याने व्याख्यातमथापि तदनुप्राणितः प्रकृतालंकारोऽपि नात्र दण्डवारित इति तदुदाहरणमपीति बोध्यम् । एतेन प्राचामर्वाचीनानां च नैवायं संमत इति परास्तम् । दिङ्मात्रस्यैव तत्र तत्र तैस्तैः प्रतिपादितत्वात् । यावत्काव्यकोडीकारेणालंकारनिर्णयस्यासर्वज्ञाशक्यत्वान्नव्यैरपि जगन्नाथपण्डितैः स्वकाव्यनिबद्धस्याप्यस्योपलभ्यमानरसगङ्गाधरीयालंकाराननेऽसंगृहीतत्वाचेति दिकू ॥ २३१ ॥ एवमसंभवप्रसक्तामसंगतिं लक्षयतिभिन्नेति । भिन्नौ देशौ ययोस्ते तथा । वैयधिकरण्यशालिनी इत्यर्थः । तथा विरुद्धाभे विरुद्ध इव आ ईषत् भातस्ते तथा।आपातिकविरोधप्रतिभासे इति यावत्।एताहशेतु हेतुकार्ये असंगतिरेतनाम्यलंकृतिर्भवतीयन्वयः। तथाचोक्तं कुवलयानन्दे'विरुद्धभिन्नदेशत्वं कार्य हेत्वोरसंगतिः । विषं जलधरैः पीतं मूर्छिताः पथिकाङ्गनाः' इति। रसगङ्गाधरेऽपि विरुद्धत्वेनापाततो भासमानं हेतुकार्ययोर्वैयधिकरण्यमसं. गतिरिति। तामुदाहरति-संयम इति । तरुण्या इति शेषः । केशैश्चिकुरैः संयमः सम्यक्सीमन्तादिरचनपूर्वकं कबरीभारे नियमनमित्यर्थः । पक्षे धारणाध्यानसमाध्याख्ययोगाङ्गान्तरङ्गत्रयमिति यावत् । अथ किं ततस्तत्राह-श्रुतीति । श्रुत्योः कर्णयोर्यावन्तौ चरमभागौ तयोर्योऽनुभवः स तथा । स्त्रीणां ह्ययं संप्रदाय एव यद्वे. णीकरणानन्तरं मुकुरनिरीक्षणं कर्तव्यमिति । एवं च तदा कटाक्षाभ्यां कर्णान्ति. मभागानुभवो भवत्येवेत्यर्थः । खरूपानुभव इति पाठे स्वसौन्दर्यानुभव इति यावत् । पक्षे श्रुत्यन्ताः वेदान्तास्तेषामनुभवस्तत्प्रतिपादितब्रह्मात्मैक्यसाक्षात्कार इत्य. र्थः । पाठान्तरे खात्मरूपाद्वैतसाक्षात्कारः दृशोनयनयोरासेति योजना । अत्र हि श्लेषण केशैः संयमः श्रुतमतार्थानुभवार्थ निदिध्यासनाख्यश्चित्तवृत्तिनिरोधः सा. धितो भवत्यथ तत्फलं श्रुत्यन्तशब्दितवेदान्तार्थानुभवस्तु दृशोः संपद्यत इति कार्यकारणयोरसामानाधिकरण्यं वास्तविकप्रथमार्थानुसारेण तयोरविरोधपूर्वकमनु.
१ 'स्वरूपानुभवः' इति पाठः.