SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ उत्तरार्धे 1 तन्मुक्तोऽपीत्यपेर्बोध्ये विरोधे न युजेर्भवेत् । तद्भिन्नेष्वेव सङ्गेन पातनैयत्यबोधनम् ॥ २१९ ॥ स्ववपोत्खादनेनापि यागः कार्य इतीदृशात् । वाक्यात्तात्पर्यतोऽप्यर्थः किं नास्त्यन्यावधारणम् ॥२२०॥ वर्तमानाख्यत्रिविधप्रतिबन्धविधुरेणेत्यर्थः । एतादृशेन बोधेन अद्वैत ब्रह्मात्मैक्यविषयकसाक्षात्कारेणेत्यर्थः । विना क्वचित् कस्मिंश्चिद्देशे कालेऽपि न नैव भवतीत्यन्वयः । फलितमाह – तथात्व इत्यादिना । निरुक्तप्रमैककरणका विद्याध्वस्तिरूपमुक्तिशालित्वे सतीति यावत् । खस्याकाशस्य धूमेन सङ्गवन्न ह्याकाशस्य धूमेन दृश्यमानापि संगतिरिति प्राचीनाचार्यवचनात्कथं पतनं भवेदिति योजना ॥२१८॥ नन्वेवं तर्हि ‘मुक्तोऽपि संपतेत्सङ्गात्' इत्यादि त्वदुदाहरणस्य का गतिरित्यत आह- तन्मुक्तोऽपीत्यादिना इत्यस्मिन्नुदाहरण इत्यर्थः । तत्तस्मान्निरुक्तरूपात् मुक्तिर्नाप्रतिबद्धेनेत्यादिपूर्वपद्ये निर्णीतान्मुक्तस्य कथंचिदपि प्रारब्धपरिसमाप्त्यनन्तरं बाधितद्वैतावभासस्याप्यभावेन नरकपातासंभवादिति यावत् । अपेः अपिशब्दस्य । बोध्ये निरूढद्योतनावृत्त्या प्रागुक्तरीत्या समुदाहृतामरसिंहोक्तसं• भावनाख्ये पञ्चमार्थरूपे प्रतिपाद्ये विषय इत्यर्थः । विरोधेन निरुक्तरीत्या कदाचिदपि पतनासंभवात्तत्संभावनया सह सामानाधिकरण्याभावेनेति यावत् । युजेः योगाद्धेतोरित्यर्थः । तद्भिन्नेष्वेव जीवन्मुक्तेतरमनुष्येष्वेव । सङ्गेन परनारीसंसर्गेण । पातेति । नरकपातनिश्चयप्रतिपादनमित्यर्थः । भवेदित्यन्वयः । अयमभिप्रायः । यथा लोके व्यावहारिकखप्रकाशत्वेन सूर्यस्याभ्राद्यानृतत्वे सति द्रष्टृचक्षुः संनिकृष्टयावत्स्वेतरभासकत्वमेव दृष्टं यथावा पुत्री जात इत्यादिशब्देऽपि विशिष्टवाचकत्वेन तद्विशेष्यीभूतस्य पितुः सिद्धत्वाज्जनिक्रियासमभिव्याहृतस्य पुत्रीति विशिष्टवाचकस्यापि शब्दस्य विशेषणीभूत पुत्र मात्र वाचकत्वं सविशेषण. विध्यादिन्यायसिद्धं, तथा प्रकृते अपिशब्दस्य 'मुक्तोऽपि संपतेत्सङ्गात्' इत्यादौ सङ्गान्मुक्ततदितरसर्वसाधारण्येन नरकपातसंभावनालक्षणविशिष्टार्थवाचकस्यापि दृष्टान्तयोः क्रमादभ्राच्छादनरूपः पितुः सिद्धत्वरूपश्च प्रतिरोध इव प्रकृतेऽपि जीवन्मुक्तस्य शास्त्रशतकोटिसिद्धपतनाभावनियमरूपः प्रतिरोध: प्रसिद्ध एवेति दृष्टान्ते सूर्येतरचक्षुःसंनिकृष्टघटादिवत् पुत्रादिवच्च मुक्तेतरसकलमनुष्यावच्छेदेन परनारीसङ्गहेतुकं पतननैयत्यमेवेत्यर्थवाचकत्वमेवेति । यदा मुक्तोऽपि सङ्गात्पतति तदा तदन्यः पततीति कैमुत्यसिद्धमेवेत्यर्थस्तु सर्वसंमतः सएव सति प्रतिबन्धसत्वेऽत्र मया व्युत्पत्तिवैचित्र्यादुपपादित इति क्षन्तव्य एवायं मदपराधः सुधीभिरिति शिवम् ॥ २१९ ॥ ननु किमनया कुसृष्टया 'मुक्तोऽपि संपतेत्सङ्गात् ' इत्यादि भवतोक्तस्यापेः संभावनालक्षणपञ्चमार्थोदाहरणस्य मुक्तस्य पतनासंभवरूपविरोधेन सङ्गदुस्तरत्वमात्रबोधनपरत्वादिति चेत्सत्यम् । 'प्रजापतिर्वा इदमेक आसीत्सोऽकामयत प्रजाः पशून्सृजेयेति स आत्मनो वपामुदख्खिदत्तमग्नौ ૪૮૨
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy