________________
कौस्तुभरत्नम् ८ ]
सरसामोदव्याख्यासहितम् ।
स्वपरोद्भासकस्यापि प्रतिबन्धवशात्कचित् । परेकभासकत्वं स्यादभ्राच्छादितसूर्यवत् ॥ २१६ ॥ विशिष्टवाचके शब्दे विशेष्यांशे विरोधतः । विशेषणैकवाचित्वं पुत्र्यभूदेवमादिषु ॥ २१७ ॥ मुक्तिर्नाप्रतिबर्द्धन बोधेन तु विना क्वचित् । तथात्वे खस्य धूमेन सङ्गवत्पतनं कथम् ॥ २९८ ॥ पञ्चमाप्यर्थपक्षे कंचिद्विशेषमाह – अत्रेति । निरुक्तसप्तविधाप्यर्थमध्य इत्यर्थः । सविशेषणेति । 'सविशेषणौ हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे' । ‘पुत्री जातः शिखी ध्वस्तः' इति न्यायादित्यर्थः । अपिः विरुद्धयुक् चेत्तर्हि तद्भिन्ने । बोध्येति । बोध्यस्य विधेयादेर्नियामकः ॥ २१५ ॥ ननु संभावनाख्यपञ्चमाप्यर्थपक्षे यदुक्तमपेः सविशेषणविधिनिषेधन्यायेन स्वाभिधेयविरुद्धार्थवाचकपदान्वयित्वे क्वचित्प्राप्ते सति तद्भिन्नत्वावच्छेदेनैव स्वाभिधेयनैयत्यबोधकत्वमिति तदनुपपन्नम् । तथाहि प्रागुक्ते भावत्के मुक्तोऽपि सङ्गात्पततीत्यादौ तदुदाहरणे यथाश्रुते सङ्गान्यथानुपपत्त्या मुक्तपदेन जीवन्मुक्त एव ग्राह्य इति तु निर्विवादमेव । तथाच तादृशस्यापि भरतादेर्हरिणशिशुसङ्गात्पुनर्ह· रिणादिजन्मवदधःपातसंभावनैवापिशब्दार्थः प्रतीयते । नच मुक्तिपतनयोस्तेजस्तिमिरयोरिव परस्परविरोधयोगादेव तत्रापेः संभावनार्थकत्वं बाधितं सन्निरुक्तसविशेषणविध्यादिन्यायेन तद्भिन्नपातनैयत्यैकपर्यवसायि । भरतस्तु तदानीं प्रतिबद्धज्ञानत्वेनैव पञ्चदश्यां वर्णितत्वेनामुक्त एवेति सांप्रतम् । तथात्वे त्वदुदाहरणस्यैवासाङ्गत्यात् । एवंच निरुक्तोदाहरणे मुक्तपदमुद्वास्य बुधादिपदमेव प्रयोक्तव्यमिति चेन्न । उक्तव्युत्पत्तिविशेषप्रपञ्चनार्थमेव तथा प्रयुक्तत्वादित्यभिसंधाय निरुक्तन्यायदार्थ्यार्थमत्र दृष्टान्तं स्पष्टयति – स्वपरेति । एवं हि लोके सामान्यव्याप्तिः । यत्स्वपरोद्भासकस्यापि स्वप्रकाशादिवस्तुनः क्वचित्प्रतिबन्धवशादभ्राच्छादित सूर्यवत्परैकभासकत्वं स्यादिति संबन्धः । यद्यप्यत्र सूर्यः स्वप्रकाशत्वेन स्वयमपि भात्येव । अन्यथा घटादिरपि न भायात्तथाप्यस्मदादिचक्षुः किरगानां सूर्यसंनिकर्ष एव प्रतिबद्ध इति ॥ २१६ ॥ ननु भवत्वेवं सनिदर्शना व्याप्तिस्ततः प्रकृते किमागतमित्याशङ्कय तन्निदर्शनेन शब्देऽपि सामान्यतो व्यवस्थां व्याप्तिपूर्विका गूढाभिसंधिः कथयति - विशिष्टेति । अत्र दर्शितहष्टान्तान्वयस्त्वार्थिक एव । विशिष्टवाचके विशेषणविशेष्यतत्संबन्धाख्यवस्तुसमुदायाभिधायक इत्यर्थः । एतादृशे शब्दे विशेष्यांशे विरोधतः प्रत्यक्षादिप्रमाणान्तरविरोधाद्धेतोरित्यर्थः । पुत्र्यभूदेवमादिषु उदाहरणेषु । विशेषणैकवाचित्वं विशेषणीभूत पुत्रमात्रवाचकत्वमस्तीति संबन्धः । विशेष्यीभूतस्य पितुः प्रागेव सिद्धत्वादिति तत्त्वम् ॥ २१७ ॥ इदानीं गूढाभिसंधिमुद्घाटयति- मुक्तिरिति । मुक्तिस्तु अप्रतिबद्धेन । ऐहिकमप्यप्रस्तुत प्रतिबन्धे तद्दर्शनादिशास्त्रसिद्धभूतभावि
1
४१
૪૮૧