________________
४८.
[उत्तराचे
साहित्यसारम् । परनारीरपि प्रेक्षीनरकं किं न यास्यसि । अतः संन्यस्य वैरस्यारि हरमपि स्मर ॥ २११॥ अपि किं मामकं रूपं वास्तवं तहुरो वद ।। अपि द्वैतामृतं किंवा मृषा मृगजलोपमम् ॥ २१२ ॥ मुक्तोऽपि संपतेत्सङ्गात्तरुणीनां मृगीदृशाम् । संसारोऽपि न किं ध्वंस्यो वने निवसता त्वया ॥ २१३ ॥ स्वभार्यर्तुप्रसङ्गे तु यथेच्छमपि संरम । इति सप्ताप्यपेरर्थाः कोशोक्ताः समुदाहृताः॥२१४ ॥ अत्र संभावनापक्षे सविशेषणयुक्तितः।
अपिर्विरुद्धयुकू चेत्तद्भिन्ने बोध्यनियामकः ॥ २१५॥ पूर्वस्मादमरकोशात् । अपेः अपिशब्दस्य ॥ २१० ॥ तत्रामरक्रमानुसारेणैव थथा स्थलमिति प्राकू प्रतिज्ञातरीत्या सप्तविधानपि तान् समुदाहरन् प्रथमं गर्हाभियनिन्दाख्यमपि शब्दार्थ समुदाहरति-परनारीरिति । रे जाल्म, त्वं परनारीरपि खेतरसुन्दरीरपीत्यर्थः । यतः प्रेक्षीः सततसुरताभिलाषलक्षणप्रकर्षेणैवेक्षितवानस्थतः नरकं न यास्यसि किमपितु यास्यस्येवेति योजना । एवं च धिक्त्वामीदशमिति निन्दैव व्यज्यते । तर्हि किमितः परं कार्यमित्यत आह समुच्चयाख्यं द्वितीयमपेरथै सूचयन्–अत इति ॥ २११ ॥ अपि चेत्सुदुराचारः' इत्यादिस्मृतेः सानु. तापमुक्ताभिलाषं परित्यज्येशं भजतः खरूपजिज्ञासया प्रश्नाख्यं तृतीयं तमुदाहरति-अपीति । ततः शङ्काभिधसंशयाख्यं चतुर्थ तं कथयति-अपि द्वैतमिति । ऋतं सत्यम् ॥ २१२॥ अथोक्तप्रश्नसमाधानश्रवणे सङ्गत्याग्येवाधिकारीति श्रीगुरुव॑नयन् संभावनाभिधं पञ्चममपि शब्दार्थमुदाहरति-मुक्तोऽपीति। अत्र मृगीदृशामिति बिशेषणेन तारुण्यवत्सौन्दर्यमपि द्योयते । बहुवचनं तु जात्यभिप्रायमेव । एकस्य समकालं बहुस्त्रीसंभोगासंभवात् । एतेन चित्रादितरुण्यादिदर्शनाद्यपि निन्द्यमेवेति ध्वन्यते। तदुक्तं भागवते–'पदापि नस्पृशेद्विद्वान्युवतीं दारवीमपि । कथां च वर्जयेत्तासां न पश्येल्लिखितामपि' इति । एवं तर्हि मे सुदुर्लभ एव मोक्षस्ततः किं विकेकादिसाधनप्रयासैरियतिनिर्विणं शिष्यं समाश्वासयन्नाचार्यः षष्ठं युक्तपदार्थमपेरर्थे प्रथयति-संसारोऽपीति । ध्वंस्थोऽपि न किमिति संबन्धः । एतेन तत्र ध्वंसयोग्यत्वं व्यज्यते ।वन इत्यादिना तत्साधनं सर्वथा सङ्गत्याग एवेति द्योत्यते । अत एव तैत्तिरीयाः समामनन्ति-'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः' इति ॥ २१३ ॥ ननु यदा संन्यासः क्रियते मयास्तु नाम वने निवासो मे परं लिदानी संन्यासमन्तरा किं मया विचारो पि न कार्य इत्याशङ्कय सप्तममपिशब्दार्थ कामचाराख्यं कथयन् समाधत्ते-स्वेति । एतेन परनारीविहारपरिहार एव शास्त्रे प्रधानसाधनलेन संमत इति ध्वन्यते । उपसंहरति-इतीति ॥ २१४ ॥ तन्मध्ये संभावनाख्य