Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ]
सरसामोदन्याख्यासहितम् ।
षष्ठी विभावना ज्ञेया कार्यात्कारणजन्म चेत् । श्रीराम विजय स्वद्रः कीर्तिक्षीरोद उद्गतः ॥ २२८ ॥ प्रसिद्धकारणौघस्य सामानाधिकरण्यतः । कार्यानुत्पत्तिरुक्ता चेद्विशेषोक्तिरिष्यते ॥ २२९ ॥ अद्वैतसच्चिदानन्द सगुरो त्वयि सर्वदा । हृदि सत्यपि धिक्कान्तां तच्चिन्तयति संततम् ॥ २३० ॥ कार्यस्यासंभवत्वोक्तिर्दीक्षितेष्टोऽस्त्यसंभवः । द्वैतमेव मृषा कुर्याद्दुरुरित्यास कस्यचित् ॥ २३१ ॥ श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणम्' इति ॥ २२७ ॥ अथ 'कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना । यशःपयोधिरभवत्करकल्पतरोस्तव' इति च तदुक्तां षष्ठीं तां लक्षयति-षष्ठीति । यथावा कुवलयानन्दे - ' जाता लता हि शैले जातु लतायां न जायते शैलः । संप्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम्' इति । यथावा मदीयाद्वैतामृतमजर्याम् – 'विद्युत्पयोधरेऽभूत्कापि न विद्युति पयोधरो दृष्टः । अद्य तु विपरीतमिदं मन्दगविद्युति पयोधरद्वन्द्वम्' इति ॥२२८॥ एवं कार्यकारणभाववैलक्षण्यलक्षणविभावनाप्रतिपादनप्रसङ्गसंगतां 'कार्याजनिविंशषोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत्स्मरदीपे ज्वलत्यपि' इति कुवलयानन्दोक्तां विशेषोक्तिं लक्षयति - प्रसिद्धेति । तदुक्तं रसगङ्गाधरे'प्रसिद्धकारणकलाप सामानाधिकरण्येन वर्ण्यमाना कार्यानुत्पत्तिर्विशेषोक्तिः' इति ॥ २२९ ॥ तामुदाहरति — अद्वैतेति । तत् हृदयतः संततमपि कान्तां रमणीमेव चिन्तयति । अतः तादृशं तत्प्रति धिगस्त्वित्यन्वयः । अप्यन्तं तु सरलमेव । यथावा काव्यप्रकाशे - 'कर्पूर इव दग्धोऽपि शाक्तमान्यो जने जने । नमोस्त्ववार्यवीर्याय तस्मै मकरकेतवे' इति । यथावा साहित्यदर्पणे - ' धनिनोsपि निरुन्मादा युवानोsपि न चञ्चलाः । प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः । अत्र महामहिमशालित्वं निमित्तमुक्तम् । यथावा कुवलयानन्दे - 'अनुरागवती संध्या दिवसस्तत्पुरःसरः। अहो दैवगतिश्चित्रा तथापि न समागमः' इति । यथावा रसगङ्गाधरे - 'उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता । तदपि न हा विधुवदना मानससदनाद्वहिर्याति' । यथावा - 'प्रतिपलम खिलाल्लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि । हा हतकं चित्तमिदं विरमति नाद्यापि विषयेभ्यः' इति । अत्र प्रत्युदाहरणमपि तत्रैव—'दृश्यतेऽनुदिते यस्मिन्नुदिते नैव दृश्यते । जगदेतन्नमस्तस्मै कस्मैचिद्बोधभाखते' इति ॥ २३० ॥ एवं विशेषोक्तिगत कार्यानुत्पत्तिप्रसक्तमसंभचालंकारं ससंमतिकं लक्षयति-- कार्यस्येत्यर्धेन । कार्यस्य असंभवत्वोक्तिरसंभावितत्ववर्णनमित्यर्थः । एतादृश: असंभव एतन्नामकोऽलंकारः दीक्षितेष्टः श्रीमदप्पय्यदीक्षितैकसंमतोऽस्तीत्यर्थः । एवंच कार्य प्रतियोगिका घटमानत्ववर्णनविषयत्वमेवासंभवालंकारत्वमिति तत्सामान्यलक्षणं सिद्ध्यति । तदुक्तं कुवलया
W
४८५

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576