Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
४६. साहित्यसारम् ।
[उत्तरार्धे इत्यर्थः । अपरं तु सरलमेव । यथावा मदीयाद्वैतामृतमञ्जर्या रतिनीतिमुकुले'कुटिलोऽपि रागवानपिदर्शनतः क्षोभकोऽपि बद्धोऽपि। सीमन्तवजुश्चेन्मुक्ताभूष्यो न किं भूयात्' इति । अथ शब्दश्लेषीयोभयाश्रितसभङ्गाभङ्गश्लेषोदाहरणद्वयं क्र. मात्पादाभ्यामेव प्रदर्शयन् श्रीरामं प्रकृतमप्रकृतं विद्वांसं च विशिनष्टि-दशा. स्येत्यादि । अत्र श्रीरामपक्षे दशास्यं रावणं हरति हन्तीति तथा हतदशवदन इत्यर्थः । अतएव जयीशानः जयिनां विजयशालिनां मध्ये ईशः श्रेष्ठ इतियावत् । विद्वत्पक्षे तु दशास्येत्यायेकं पदम् । दशानां श्रोत्रादिज्ञानेन्द्रियपश्चकवागादिकर्मेन्द्रियपञ्चकमेलनेन दशसंख्याकानां करणानामास्यमिव मुख्यमेतादृशं यद्धृन्मनस्तस्य यो जयः 'अभ्यासवैराग्याभ्यां तनिरोधः' इति पातजलसूत्रादावुक्ताभ्यासायुपायेन ‘योगश्चित्तवृत्तिनिरोधः' इत्यादि तदायुक्तलक्षणः खरूपैकाकारतादाद्यरूपो वशीकारः स विद्यते येषां तेषामीशानो योगीन्द्रचूडामणिरित्यर्थः । एवं चात्रोक्तपदच्छेदेनार्थभेदात्सभङ्गत्वं श्रीरामादिवर्णनात्प्रकृतादिनिष्ठत्वं चेति लक्षणसंगतिः। पुनः कीदृशः रामो विद्वांश्च । अतएव । प्राप्तेति । प्राप्तः लब्धः वैदेह्याः सीतायाः उपाश्रयः वामाङ्कगतत्वेन कण्ठाश्लेषो येन स तथा । समालिगितजनकनन्दिनीक इति यावत् । पक्षे प्राप्तः समाधिपरिपाकादिना समनुभूतः वैदेयाः प्रारब्धक्षयोर्ध्वमवश्यभाविन्याः लोकदृष्टयापि प्रौढजनतर्कितायाः आत्यन्तिकदृश्येन्द्रजालभानाभावपूर्वखप्रकाशपूर्णानन्दाद्वैतस्थितिरूपनिर्गुणसायुज्यमुक्के. रुपाश्रय इव उपाश्रयः अखण्डैक्यलक्षणोऽवलम्बो येन स तथा । अद्वैतब्रह्मविद्यादिपरिपाकतः प्रत्यक्षीकृतजीवन्मुक्तिसुख इत्यर्थः । तथाचात्रापि प्राग्वदेव शब्दश्लेषोभयाश्रयत्वं पदच्छेदविशेषेणार्थान्तराकरणादभङ्गश्लेषत्वं चेति लक्षणसमन्वयः। एवं प्रियास्याग्र इत्यादिप्राप्तवैदे[पाश्रय इत्यन्ते प्रागुक्तशुद्धाभिधार्थश्लेषशब्दश्लेषीयसभङ्गाभङ्गभेदद्वयसहितभेदत्रयस्य क्रमादप्रकृतमात्राश्रितत्वप्रकृताप्रकृतोभयाश्रि. तलभेदेन द्वैविध्यादुदाहरणषट्केऽपि प्रागुक्तं अन्योभयत्रये । विशेषणैकपदगं श्लिष्टत्वमिति शास्त्रनियमितं विशेष्याश्लिष्टत्वमपि स्पष्टमेव । यथावा दमयन्तीकथाचम्पूप्रबन्धे क्रमाद्वयोरप्युदाहरणे—'व्यासः क्षमाभृतां श्रेष्ठो वन्द्यः स हिमवानिव । सृष्टा गौरीदृशी येन भवे विस्तारिभावता' इति । 'सदूषणापि निर्दोषा सखरापि सकोमला । जयत्यसौ कृता येन रम्या रामायणी कथा' इतिच। अत्राप्रकृतमात्राश्रितसभङ्गश्लेषस्याद्यमुदाहरणम् । प्रकृताप्रकृतयोभयाश्रिताभङ्गश्लेषस्यान्य. मिति । तद्यथा । सः व्यासः हिमवानिव हिमाचल इव, पक्षे हिमवानिव हेमन्त. शिशिरात्मकशीतकाल इव वन्द्योऽस्तीति संबन्धः । कीदृशो व्यासो हिमवच्छब्द. वाच्यो हिमाचल: शीतकालश्च । क्षमाभृतां श्रेष्ठः परापराधसहिष्णुत्वशालिनां मध्ये तथा पृथ्वीधारकपर्वतानां मध्ये तद्वत् भूमिपोषकर्तृणां मध्ये क्रमादद्वैतशास्त्रकर्तृवादनन्तरत्नौषधिनिलयवाद्गोधूमादिचरमधान्यजनकखाच्च वरिष्ठ इत्यर्थः । स क इत्यत्राह-सृष्टेत्यादिना । येन व्यासेन भवे संसारे विस्तारिभारता

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576