Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 464
________________ ४४८ साहित्यसारम्। [ उत्तरार्धे त्सर्वमसंगतमिति सर्वात्मना तदसांगत्यं प्रतिज्ञाय । तत्र हेत्वाकाङ्क्षायां यत्तावदुच्यते-मुखं चन्द्र इत्यत्र मुखे चन्द्रत्वारोप इति तत्र नामार्थयोरभेदेनैवा. न्वयान्मुखे चन्द्रस्यारोपो न चन्द्रत्वस्य चन्द्र विशेषणस्येत्येकं प्रथमं दूषणमुक्तं तत्सत्यमेव । तथापि मुखं चन्द्र इत्यादौ मुखे चन्द्रत्वारोपहेतुमुखशब्दसमभिव्याहारवदिति त्वयैवात्र तदन्थानुवादे वाक्यमुक्तम् । तत्र मुखे वदने चन्द्रत्वेन धर्मेण आह्वादकत्वसामान्येन यश्चन्द्रस्यारोप इत्यार्थिकम् । यद्वा चन्द्रत्वविशिष्टस्य चन्द्रस्य य आरोपः तस्य हेतुः कारणीभूतो यो मुखशब्देन सह समभिव्याहारः मुखं चन्द्र इति समानविभक्तिवचनत्वेनाव्यवधानेन चाभिधानं तद्वदिति सरलधियामर्थः प्रतीयते । अतएव न्यायरत्नावलीकारैः समुदाहृते 'इदमर्थवस्त्वपि भवेद्रजते परिकल्पितं रजतवस्त्विदमि । रजतभ्रमेऽस्य च परिस्फुरणान यदि स्फुरेनहि तु शुक्तिरिव' इतिश्लोके शुक्तिरिवेत्यस्य व्याख्याने । शुक्तिरिव शुक्तित्वविशिष्टवत् इत्यवच्छेदकपुरस्कारेणैव ब्रह्मानन्दसरखतीभिस्तदभिहितमुपमानम् । ततोऽत्र दीक्षितैरवच्छेदकघटितमेव चन्द्रत्वेत्यायुक्तम् । तथाच कोऽत्र दोषलेशोपि । एवं तदने यदप्युच्यते जारा. दिपदसमभिव्याहारस्य हेतोर्विरहान चन्द्रादौ जारत्वारोप इति । तन्न । श्रौतारोपे तादृशसमभिव्याहारस्य हेतुत्वं नत्वार्थारोपे । अन्यथा रूपकध्वनेरुच्छेदापत्तेः । नच रूपकध्वनावारोप्यमाणसाधारणधर्मोकिरारोप्यमाणतादात्म्यव्यजिका । नचेह तथा किंचिदस्तीति वाच्यम् । इहापि परनायिकामुखचुम्बनस्य श्लेषमर्यादया व्यञ्जनमर्यादया वा प्रतीतस्य प्रकृतधर्मिणि चन्द्रे आरोप्यमाणस्य जारासाधारणधर्मत्वेन जारत्वव्यजकतायाः स्फुटत्वादित्यादिनाऽप्रकृतव्यवहारमात्रारोपे दूषणान्तरं प्रपञ्च्य । तस्मादप्रकृताभिन्नतया व्यवसितः प्रकृतव्यवहारः खविशेष्ये तद्विशेष्याभिन्नतयावस्थिते भासते तत्राप्रकृतार्थ उपस्कारकतया गुण इति प्रकार एव रमणीय इति निगमितम् । एवं चैतावतोपपादनेन तथा । यदित्थं व्यञ्जनमाहात्म्यादेवाप्रकृतवाक्यार्थतादात्म्येन प्रकृतवाक्यार्थोऽवतिष्ठते, गुणीभूतव्यनयभेदश्चायमिति तु रमणीयः पन्था इति प्राक्तननिर्णयग्रन्थेन च समासोक्तिर्नाम कश्चिदर्थालंकारो नैव किंतु गुणीभूतव्यङ्गयभेद एवेति सिद्धम् । तर्हि विनोक्त्यलंकारनिरूपणानन्तरं भवतैव समासोक्तित्वेन तल्लक्षणं प्रथमतएव किमिति कृतं। तथा अथास्याः केचन भेदा निगद्यन्त इति प्रतिज्ञाय समासोकेरेव भेदाः-'उत्सङ्गे तव गङ्गे पायंपायं पयोऽतिमधुरतरम् । शमिताखिलश्रमभरः कथय कदाहं चिराय शयिताहे'। अत्र शिशुजननीवृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्त इति । 'अलंकतुं कौँ भृशमनुभवन्या नव. रुजं ससीत्कारं तिर्यग्वलितवदनाया मृगदृशः । कराब्जव्यापारानतिसुकृतसाराबसयतो जनुः सर्वे श्लाघ्यं जयति ललितोत्तंस भवतः । अत्र नवकान्तया क्लेशेन कर्णे क्रियमाणस्योत्तंसस्य वृत्तान्तः प्रत्यग्रखण्डिताधरकामुकवृत्तान्ता

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576