Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 443
________________ ४२७ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । यत्रेतरमृते मुख्यसिद्धिरेव न तत्र सः। उपजीव्यतया नैव संसृष्टयादिकरो मतः ॥ १५५॥ रकलमलंकारसामान्यलक्षणमिहापि न विस्मरणीयमिति चेन । उत्प्रेक्षाप्रकरणे तदुक्तरीत्यैव सौधाग्राणीत्यादिप्रकृतोदाहरणे संभावनाया अप्यसंभवेन गम्योत्प्रेक्षाभावस्य कैमुत्यसिद्धतया संबन्धातिशयोक्तरेव समुचितत्वानिरुक्तखण्डनस्य तु प्रागेव स्वकृतनियमाननुसंधाननिबन्धनत्वाच्च । तथाहि तत्रोत्प्रेक्षां प्रकृत्य यत्र च प्रतिपादकशब्दरहितं तत्सामग्रीमानं तत्र प्रतीयमाना यत्र तत्सामग्रीरहितं प्रतिपादकमात्रं तत्र संभावनामात्रमेव नोत्प्रेक्षेति पूर्वमुक्त्वा तत्सामग्रीरूपतत्प्रयोजकधर्मनिरूपणावसरे द्विविधो हि तावद्धर्मोपि खतएव साधारणः साधारणीकरणोपायेनासाधारणोऽपि साधारणीकृतश्च । सचोपायः क्वचिद्रूपकं कचिच्छ्लेषः क्वचिदपह्नुतिः क्वचिद्विम्बप्रतिबिम्बभावः क्वचिदुपचारः क्वचिदभेदाध्यवसायरूपोऽतिशयः । यथा 'नयनेन्दिन्दिरानन्दमन्दिरं मिलदिन्दिरम् । इद. मिन्दीवरं मन्ये सुन्दराङ्गि तवाननम्' । अत्र प्रथमार्धगतः प्रथमो धर्मो रूपकेण विषयिसाधरणीकृतः । द्वितीयश्च विलक्षणशोभयोरभेदाध्यवसायेनेति । तथाच तदुक्तरीत्यैव सौधाग्राणीत्यत्र परमोर्ध्वदेशसंयोगे चन्द्रमण्डलस्पर्शतादाम्योत्प्रेक्षापरमोर्ध्वदेशवृत्तित्वरूपानुपात्तधर्मनिमित्ता तादृशस्पर्शकर्तृत्वेक्षा तु परमोर्ध्वदेशसंयोगरूपानुपात्तधर्मनिमित्तेति पक्षद्वयमपि न संभवति । अत्र प्रतिपादकशब्दराहित्यं निर्विवादमेव । अथ सामग्री तावत्तदुक्तद्विविधधर्मान्यतरधर्मरूपा वक्तव्या, पश्चात्स धर्मः कविनोपात्तो भवतु काव्येऽनुपात्तो वेत्यन्यदेतत् । परंतु खत एव साधारण इति प्रथमो धर्मस्तावनैव संभवति । प्रथमपक्षे परमोर्ध्वदेशसंयोगस्य चन्द्रमण्डलस्पर्शस्य च पदार्थत्वं गुणवं वाविनाऽपरसाम्यादर्शनात् 'धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम्' इत्यादाविव नयनेन्दिन्दिरानन्दमित्यादाविव च रूपकादिना साधारणीकृतस्यापि तस्यानुपलब्धेर्द्वितीयोऽपि धर्मो न युज्यते । नचोपचाररूपोपायेन साधारणीकृतोऽसावुक्त एव परमोर्ध्वदेशवृत्तित्वरूप इति वाच्यम् । तस्य धूमस्तोममित्यत्र नीलरूपवनयनेन्दिन्दिरानन्दमित्यत्र च नीलरूपनिरुपमचाञ्चल्ययोरिव चारुत्वाभावाच्च । अतएव परमोर्ध्वदेशसंयोगरूपधर्माविलम्बी द्वितीयपक्षोऽपि प्रतिक्षिप्तः । नाप्यभेदाध्यवसायरूपोपायेनैव साधारणीकृतोऽसाविति सांप्रतम् । परमोर्ध्वदेशसंयोगचन्द्रमण्डलस्पर्शयोः परमोर्ध्वदेशवृत्तित्वरूपश्चन्द्रमण्डलपर्यन्तपरमोर्ध्वदेशसंयोगचन्द्रमण्डलस्पर्शकर्तृवयोः परमोर्ध्वदेशसंयोगरूपश्चाभेद एव यदा न संभवति तदा तदुदाहृतमिलदिन्दिरवत्तदध्यवसायाभावस्य कैमुत्यसिद्धत्वात् । यथाकथंचिल्लक्षणादिना तत्संभवेऽपि तस्यासुन्दरत्वात्तदुक्तोदाहरणसमकक्षसौन्दर्यस्यैव तत्संमतत्वाच । तस्मात्सौधाग्राणीत्यत्र सामय्या अप्यभावादतिशयोक्त्युदाहरणेनैवेति शिवम् ॥ १५४ ॥ नन्वेवं यदि नियमो यदलंकारान्तरमिश्रणे संसृष्टयादिरेव तर्हि ससंमतिकं

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576