________________
४२७
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
यत्रेतरमृते मुख्यसिद्धिरेव न तत्र सः।
उपजीव्यतया नैव संसृष्टयादिकरो मतः ॥ १५५॥ रकलमलंकारसामान्यलक्षणमिहापि न विस्मरणीयमिति चेन । उत्प्रेक्षाप्रकरणे तदुक्तरीत्यैव सौधाग्राणीत्यादिप्रकृतोदाहरणे संभावनाया अप्यसंभवेन गम्योत्प्रेक्षाभावस्य कैमुत्यसिद्धतया संबन्धातिशयोक्तरेव समुचितत्वानिरुक्तखण्डनस्य तु प्रागेव स्वकृतनियमाननुसंधाननिबन्धनत्वाच्च । तथाहि तत्रोत्प्रेक्षां प्रकृत्य यत्र च प्रतिपादकशब्दरहितं तत्सामग्रीमानं तत्र प्रतीयमाना यत्र तत्सामग्रीरहितं प्रतिपादकमात्रं तत्र संभावनामात्रमेव नोत्प्रेक्षेति पूर्वमुक्त्वा तत्सामग्रीरूपतत्प्रयोजकधर्मनिरूपणावसरे द्विविधो हि तावद्धर्मोपि खतएव साधारणः साधारणीकरणोपायेनासाधारणोऽपि साधारणीकृतश्च । सचोपायः क्वचिद्रूपकं कचिच्छ्लेषः क्वचिदपह्नुतिः क्वचिद्विम्बप्रतिबिम्बभावः क्वचिदुपचारः क्वचिदभेदाध्यवसायरूपोऽतिशयः । यथा 'नयनेन्दिन्दिरानन्दमन्दिरं मिलदिन्दिरम् । इद. मिन्दीवरं मन्ये सुन्दराङ्गि तवाननम्' । अत्र प्रथमार्धगतः प्रथमो धर्मो रूपकेण विषयिसाधरणीकृतः । द्वितीयश्च विलक्षणशोभयोरभेदाध्यवसायेनेति । तथाच तदुक्तरीत्यैव सौधाग्राणीत्यत्र परमोर्ध्वदेशसंयोगे चन्द्रमण्डलस्पर्शतादाम्योत्प्रेक्षापरमोर्ध्वदेशवृत्तित्वरूपानुपात्तधर्मनिमित्ता तादृशस्पर्शकर्तृत्वेक्षा तु परमोर्ध्वदेशसंयोगरूपानुपात्तधर्मनिमित्तेति पक्षद्वयमपि न संभवति । अत्र प्रतिपादकशब्दराहित्यं निर्विवादमेव । अथ सामग्री तावत्तदुक्तद्विविधधर्मान्यतरधर्मरूपा वक्तव्या, पश्चात्स धर्मः कविनोपात्तो भवतु काव्येऽनुपात्तो वेत्यन्यदेतत् । परंतु खत एव साधारण इति प्रथमो धर्मस्तावनैव संभवति । प्रथमपक्षे परमोर्ध्वदेशसंयोगस्य चन्द्रमण्डलस्पर्शस्य च पदार्थत्वं गुणवं वाविनाऽपरसाम्यादर्शनात् 'धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम्' इत्यादाविव नयनेन्दिन्दिरानन्दमित्यादाविव च रूपकादिना साधारणीकृतस्यापि तस्यानुपलब्धेर्द्वितीयोऽपि धर्मो न युज्यते । नचोपचाररूपोपायेन साधारणीकृतोऽसावुक्त एव परमोर्ध्वदेशवृत्तित्वरूप इति वाच्यम् । तस्य धूमस्तोममित्यत्र नीलरूपवनयनेन्दिन्दिरानन्दमित्यत्र च नीलरूपनिरुपमचाञ्चल्ययोरिव चारुत्वाभावाच्च । अतएव परमोर्ध्वदेशसंयोगरूपधर्माविलम्बी द्वितीयपक्षोऽपि प्रतिक्षिप्तः । नाप्यभेदाध्यवसायरूपोपायेनैव साधारणीकृतोऽसाविति सांप्रतम् । परमोर्ध्वदेशसंयोगचन्द्रमण्डलस्पर्शयोः परमोर्ध्वदेशवृत्तित्वरूपश्चन्द्रमण्डलपर्यन्तपरमोर्ध्वदेशसंयोगचन्द्रमण्डलस्पर्शकर्तृवयोः परमोर्ध्वदेशसंयोगरूपश्चाभेद एव यदा न संभवति तदा तदुदाहृतमिलदिन्दिरवत्तदध्यवसायाभावस्य कैमुत्यसिद्धत्वात् । यथाकथंचिल्लक्षणादिना तत्संभवेऽपि तस्यासुन्दरत्वात्तदुक्तोदाहरणसमकक्षसौन्दर्यस्यैव तत्संमतत्वाच । तस्मात्सौधाग्राणीत्यत्र सामय्या अप्यभावादतिशयोक्त्युदाहरणेनैवेति शिवम् ॥ १५४ ॥ नन्वेवं यदि नियमो यदलंकारान्तरमिश्रणे संसृष्टयादिरेव तर्हि ससंमतिकं