SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४२६ साहित्यसारम् । [ उत्तरार्धे क्षितैरलंकार सर्वस्वकृतेत्यादिना 'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासि नीषु । यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति शिप्रा' इति तदीयमुदाहरणं छलपदेन कैतवापहुतिघटितं तथेवशब्देनोप्रेत्क्षाप्रधानं चोक्त्वाग्रे न केवलमिदं तेनाभिनवमुक्तमेवमस्माभिरपि स्वरूपहेतुफलोत्प्रेक्षात्रितयेपि वक्तुं शक्यमिति तत्रयोदाहरणान्यप्युल्लिखितानि दिमात्रेण व्याख्यायालमनया प्रसक्तानुप्रसक्त्या प्रकृतमनुसराम इति ग्रन्थेन तदुपसंहारः कृतः । तेनैवं निर्णीयते वचैतत्पर्यस्तापह्नुतिगर्भितत्वेनातिशयोक्तिभेदजातं किंलियं प्रागुपन्यस्ता पर्यस्तापह्नुतिरेवेति । एतेन मुक्ताविद्रुममन्तरेत्यादितल्लिखितोदाहरणान्तरमपि व्याख्यातम् । एवमलंकारसर्वस्वकारस्य सापह्नवोत्प्रेक्षोदाहरणं तदनुसारेणैतेषामपि सापह्नवस्वरूपाद्युत्प्रेक्षोदाहरणत्रयमपि तत्र स्फुटालंकारद्वय संवलितत्वोक्त्या संसृष्टिविषयमेवेति दिक् । अतएव मयात्र अनितरेति विशेषणं प्रयुक्तम् । अन्यथैवं भेदसहस्रापत्तेः संसृष्टयादिलोपापत्तेश्च । एतेन यदुक्तं रसगङ्गाधरे । यत्तु कुवलयानन्दे—' यद्यपह्नुतिगर्भत्वं सैव सापह्नवा मता । त्वत्सूक्तिषु सुधा राजन् भ्रान्ताः पश्यन्ति तां विधौ' इत्यत्र पर्यस्तापह्नुतिगर्भामतिशयोक्तिमाहुः । तच्चिन्त्यम् । पर्यस्तापह्नुतित्वं न प्रामाणिकसंमतमिति प्रागेव दत्तोत्तरत्वादिति तत्प्रत्युक्तम् । हेत्वसिद्धेर्मया तत्प्रकरणे प्रागेव प्रपश्चितत्वात् । इह तद्गर्भत्वकथनव्यवस्थायाः सद्य एव साधितत्वाच्च । एवं तत्रैव प्रागुक्तम् । नव्यास्तु निगीर्याध्यवसानमेवातिशयोक्तिः । प्रभेदान्तरं त्वनुगतरूपाभावादलंकारान्तरमेवेति यतदपि परास्तम् । निरुक्तसामान्यलक्षणेनानुगतरूपोतेः । नन्वेवमपि तत्कृतं कुवलयानन्दसंमतसंबन्धातिशयोक्तिखण्डनं तु तदवस्थमेव । तद्यथा तत्रैव । यदपि तैरेवोक्तम् — 'संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् | सौधाप्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्' मिति । तदपि न । अत्रैव स्पृशन्तीवेन्दुमण्डलमिति कृते कोऽलंकारः । उत्प्रेक्षेति चेत् । तर्हीवादेरभावाद्गम्योत्प्रेक्षेयमुचिता । इवादिसत्वे या वाच्योत्प्रेक्षा सैवाभावे गम्योत्प्रेक्षेति नियमस्य सर्वसंमतत्वात् । 'वत्कीर्तिभ्रमणश्रान्ता विवेश स्वर्गनिम्नगाम्' इति त्वदुक्तगम्योत्प्रेक्षायाः सौधाग्राणीत्यस्य चोत्प्रेक्षांशविशेषानुपलम्भात् । तथाहि त्वत्कीर्तिरित्यादौ बहुदूरगमने स्वर्गगमने वा स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षेति नये स्वर्गसंबन्धित्वरूपानुपात्तधर्मनिमित्तेयं । कीर्तौ स्वर्गङ्गाकर्मकप्रवेशकर्तृत्वोत्प्रेक्षेति नये तादृशगमनरूपानुपात्तधर्मनिमित्ता । विशेषणीभूत भ्रमणश्रान्तत्वरूपहेतूत्प्रेक्षेति नये तु तादृशगमनतादात्म्याध्यवसितस्वर्गङ्गाप्रवेशरूपोपात्तधर्मनिमित्तेति सर्वथा गम्यैव । सौधा - ग्राणीत्यत्र परमोर्ध्वदेशसंयोगे चन्द्रमण्डलस्पर्शतादात्म्योत्प्रेक्षायां परमोर्ध्वदेशवृत्तित्वरूपानुपात्तधर्मनिमित्ता तादृशस्पर्शकर्तृत्वोत्प्रेक्षायां तु परमोर्ध्वदेशसंयोगरूपानुपात्तधर्मनिमित्तेति । इयमपि गम्योत्प्रेक्षैव । तस्मादुत्प्रेक्षासामग्री यत्र नास्ति तादृशमुदाहरणमुचितं यथास्मदीयं धीरध्वनिभिरित्यादि । सुन्दरत्वे सत्युपस्का• 1
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy