SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४२५ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । वये गुणैरतिशयस्योक्तौ सा सप्तधा मता। रूपकातिशयोक्त्यादिभेदेनानितरान्विता ॥ १५४ ॥ नेन भवितव्यं नूनं पुरुषेणानेन भाव्यं, दूरस्थोऽयं देवदत्त इवाभातीति च । तामुदाहरति-स इति । सः ईश्वरः । अर्धितेति । अर्ध स्ववामाधैं संजातं यस्यास्तादृशी अङ्गना यस्य स तथाभूदित्यर्थः । यथावा साहित्यदर्पणे तन्वङ्गयाः स्तनयुग्मेन मुखं न प्रकटीकृतम् । हाराय गुणिने स्थानं न दत्तमिति लज्जया' इति ॥ १५३ ॥ एवं संभावनामूलकोत्प्रेक्षाप्रतिपादनप्रसङ्गसंगतामतिशयोक्तिं सामान्यतो लक्षयति-वर्ण्य इति । वर्षो उपमेये विषये । गुणैरुपमानसाधारणादिधर्मैः । आदिना कविप्रौढोक्तिसिद्धवैचित्र्याधायकतदसाधारणधर्माणां संग्रहः । अतिशयस्योत्कर्षस्य । उक्तौ सा अतिशयोक्तिर्भवतीत्यर्थः । तथाच विषयविषयकविषयितत्साधारणासाधारणधर्मान्यतमनिमित्तकोत्कर्षविशेषाधायकवाक्यकरणकधीविषयत्वमतिशयोक्तित्वमिति । अत्रासाधारणपदेन वैध. >रूपकातिशयोक्तिभेदकातिशयोक्त्यायखिलतद्भेदसंग्रहः । एतावन्मात्रोक्तौ साधर्म्यरूपकातिशयोक्तावव्याप्तिरतः साधारणेति । धर्मनिमित्तकेत्यनेन धर्मलुप्तोपमायामतिव्याप्तिनिवृत्तिः । आधिक्यरूपकादावतिप्रसङ्गभङ्गार्थमुत्कर्षविशेषेति । शिष्टं तु प्राग्वदेव । अथैवं सामान्यतो लक्षिताया अतिशयोक्तेः किमुत्प्रेक्षावदने क. विधत्वमुत निश्चयवदेकविधत्वमेवेति शङ्कां शमयंस्तस्याः कुवलयानन्दकारम' तरीत्या सप्तविधत्वं प्रतिजानीते-सेत्यादिशेषेण । सेतिपदं मध्यमणिन्यायेनात्रापि सेबध्यते । सा निरुक्तलक्षणा अतिशयोक्तिः । अनितरेति । इतरेण अलंकारान्तरेण अन्विता विशिष्टा न भवतीति तथा । अन्यालंकारासंकीर्णेत्यर्थः । एतादृशी अतएव रूपकेत्यादि । रूपं स्वरूपमेव रूपकं तस्य यः अतिशयः उपमानतादात्म्येतरतच्छक्तशब्देनोक्तिः साधर्म्यवैधान्यतरावच्छेदेनोत्कर्षविशेषाधायकधमैरुपपादनं तदादयो याः भेदकातिशयोक्त्यादिवक्ष्यमाणाः षडलंकृतयस्तासां भेदेनेत्यर्थः । सप्तधा सप्तप्रकारा । मता श्रीमदप्पय्यदीक्षितानां संमतास्तीति संबन्धः । ननु तत्र तु अष्टावतिशयोक्तयो लक्षणादिना स्पष्टं प्रतिपादिताः प्रतीयन्ते तत्कथं सप्तविधवं तासां तत्संमतं स्यादिति चेद्बाढम् । तत्तात्पर्यबोधविधुराणां यथाश्रुतग्राहिणां तथा प्रतीतावपि वस्तुतस्तेषामेवमेव संमतत्वात् । तथाहि तत्र तावद्र्पकातिशयोक्तिनिरूपणानन्तरं 'यद्यपहृतिगर्भत्वं सैव सापहवा मता । त्वत्सूक्तिषु सुधा राजन् भ्रान्ताः पश्यन्ति तां विधौ' इति विलिख्य तत्किचियाख्याय' नन्वेवं यद्यलंकारान्तरीयस्पष्टवैशिष्टयेनाप्यतिशयोक्तर्भेदः स्यात्तर्हि किमपराद्धमत्रैव निरुक्तपर्यस्तापहृतिभिन्नसंभावितालंकारान्तरैर्वैशिष्टयाधाने तथान्येष्वप्यलंकारेषु तैस्तथावसंपादन इति स्वयमेव शिष्याद्याशयं मनसि निधाय नेदं मम संमतं यदयं भेदः केवलं पर्यस्तापह्नुतिरेव तथापि यथा अलंकारसर्वखकृतोत्प्रेक्षायामपि सापह्नवत्वमुक्तमेवमिह मयापीति गूढाभिसंधिं ध्वनयद्भिर्दी
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy