________________
४२४
साहित्यसारम् ।
[उत्तरार्धे सिद्धास्पदा फलोत्प्रेक्षा सिद्धेऽधिकरणे भवेत् । कण्ठ एव धृतः श्वेडः किं हरोदरगश्रिये ॥१५१ ॥ असिद्ध आस्पदे तु स्यात्सैवासिद्धास्पदापि च । त्वत्प्राप्त्यै मन्मनो जाने गौरीजाने हृदि स्थितम् ॥ १५२॥ प्रतीयमानगम्याख्योत्प्रेक्षा तद्वाचकं विना।
सोऽङ्गनासङ्गिमञ्चित्तरञ्जनायार्धिताङ्गनः॥१५३ ॥ नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः' इति ॥ १५० ॥ एवं सिद्धास्पदां फलोत्प्रेक्षां लक्षयति-सिद्धेति । अधिकरणे उत्प्रेक्षाविषयीभूते वस्तुनी. त्यर्थः । तामुदाहरति-कण्ठ एवेति । हे हर भक्तदुःखहरणकर्तः शंकरेत्यर्थः । त्वयेत्यार्थिकम् । श्वेडः 'श्वेडस्तु गरलं विषम्' इत्यमरात्समुद्रमथनोत्पन्नः कालकूटाख्यविषविशेष इत्यर्थः । उदरेति । खोदरवर्त्यनन्तकोटिब्रह्माण्डपरिपालनलक्षणतल्लक्ष्म्यर्थमित्यर्थः । कण्ठ एव धृतः किमिति संबन्धः । यथावा कुवलयानन्दे–'पूरं विधुर्वर्धयितुं पयोधेः शङ्केयमेणाङ्कमणीन्कियन्ति । पयांसि दोग्धि प्रियविप्रयोगे सशोककोकीनयने कियन्ति' इति । यथावा रसगङ्गाधरे-'निधि लावण्यानां तव खलु मुखं निर्मितवतो महामोहं मन्ये सरसिरुहसूनोरुपचितम् । उपेक्ष्य वां यस्माद्विधुमयमकस्मादिह कृती कलाहीनं दीनं विकल इव राजानमकरोत्' इति पूर्वार्धात्प्रेक्षितमोहरूपधर्मसिद्धये द्वितीयाधै अविचार्यकारित्वं तत्सामानाधिकरण्येनोपात्तमिति तेनेयं सिद्धा फलोत्प्रेक्षेति रहस्यम् ॥ १५१ ॥ अथासिद्धास्पदां फलोत्प्रेक्षां लक्षयति-असिद्ध इति । तामुदाहरति-त्वदिति । 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' इति स्मृतेर्हदेशावच्छेदेन त्वत्प्राप्तिः स्यादि. त्येतदर्थं हे गौरीजाने गौरी जाया यस्य तत्संबुद्धावय्युमारमण, मन्मनः हृदि हृत्पुण्डरीके गोलके स्थितमस्तीत्यहं जाने इति योजना । यथावा रसगङ्गाधरे'दिवानिशं वारिणि कण्ठदघ्ने दिवाकराराधनमाचरन्ती । वक्षोजतायै किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपतिरेषा' इति ॥ १५२ ॥ एवं वाच्योत्प्रेक्षां प्रति. ज्ञातकुवलयानन्दमतरीत्या षोढा निरूप्य संप्रत्यवसरप्राप्तां प्रतीयमानापराभिधां गम्योत्प्रेक्षां लक्षयति-प्रतीयमानेति । तदुक्तं कुवलयानन्दे-'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः' इत्युत्प्रेक्षाव्यजकत्वेन परिगणितानां शब्दानामप्रयोगे गम्योत्प्रेक्षेति । रसगङ्गाघरेपि–साचोत्प्रेक्षा द्विविधा । वाच्या प्रतीयमाना च । इव नूनं मन्ये जाने अवैमि ऊहे तर्कयामि शङ्के उत्प्रेक्षे इत्यादिभिः क्यङाचारविबादिभिः प्रतिपादकैः सहिता यत्रोत्प्रेक्षासामग्री तत्र वाच्योत्प्रेक्षा, यत्र च प्रतिपादकशब्दरहितं तत्सामग्रीमात्रं तत्र प्रतीयमाना, यत्र तत्सामग्रीरहितं प्रतिपादकमात्रं तत्र संभावनामात्रमेव नोत्प्रेक्षेति । संभावनाप्युदाहृता तत्रैव-रामं स्निग्धतरश्यामं विलोक्य वनमण्डले । पयोधाराधरोऽयं स्यादिति नृत्यन्ति केकिनः' इति । प्रायः स्थाणुना