SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४२३ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । अथानुक्तास्पदा वस्तूत्प्रेक्षाधारानिरूपणे । विरहो दहतीवाङ्गं प्रियाया मे करोमि किम् ॥ १४८॥ सिद्धेऽधिकरणे हेतूत्प्रेक्षा सिद्धास्पदा मता। शंभो तव तनुः प्रायो भक्तचिन्तावशात्सिता ॥ १४९ ॥ असिद्ध साधिकरणे मताऽसिद्धास्पदा विदाम् । तावकत्वात्स्मरः शङ्के शिव मां पीडयत्यलम् ॥ १५० ॥ इति ॥ १४७ ॥ एवमनुक्कास्पद वस्तूत्प्रेक्षां लक्षयति-अथेत्यर्धेनैव । अथोकास्पदवस्तूत्प्रेक्षाकथनानन्तरमित्यर्थः । तामुदाहरति-विरह इति । अत्र 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः' इत्यत्र तमोव्यापनरूपविषयस्यानुपादानादिवेहापि विरहजन्यदुःखरूपस्य विषयस्यानुपादानादियमनुक्तास्पदैव निजाङ्गदहनरूपक्रियात्मकवस्तूत्प्रेक्षणाच्चानुक्तास्पदा वस्तूत्प्रेक्षेति लक्षणसंगतिः । यथावा महारामायणीयसुन्दरकाण्डे–'पिनष्टीव तरङ्गाप्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः' इति । अत्र व्याख्या कुवलयानन्दे-'तरङ्गाप्रैः फेनचन्दनस्य प्रेरणं पेषणतयोत्प्रेक्ष्यते । समुद्रादुत्थितस्य चन्द्रस्य प्रथमं समुद्रपूरे प्रसूतानां कराणां दिक्षु व्यापनं च समुद्रोत्पन्नफेनचन्दनकृततल्लेपनत्वेनोत्प्रेक्ष्यते। उभयत्र क्रमेण समुद्रप्रान्तगतफेनचन्दनपुजीभवनं दिशां धवलीकरणं च निमित्तमिति फेनचन्दनप्रेरणकिरणव्यापनयोर्विषययोरनुपादानादनुक्तविषये खरूपो. प्रेक्षे' इति । यद्वा साहित्यदर्पणे-'घटितमिवाजनपुजैः पूरितमिव मृगमदक्षोदैः । ततमिव तमालतरुभिर्वृतमिव नीलांशुकैर्भुवनम्' इति ॥ १४८ ॥ अथ सिद्धास्पदा क्रमप्राप्तां हेतूत्प्रेक्षां लक्षयति-सिद्ध इति । अधिकरणे उत्प्रेक्षाविषये वस्तुनीत्यर्थः । सिद्धे शक्तिवृत्त्या प्रकृतकाव्ये प्रतिबोध्यमाने सतीतियावत् । सिद्धास्पदा हेतूत्प्रेक्षा मतास्तीत्यन्वयः । उपलक्षणमिदं हेतावपीत्यस्य । तामुदाहरतिशंभो तवेति । अत्र तनुरित्यधिकरणस्य भक्केति हेतोश्च सत्वाल्लक्षणसंगतिः। यथावा कुवलयानन्दे–'रात्रौ रवेदिवा चेन्दोरभावादिव स प्रभुः । भूमी प्रतापयशसी सृष्टवान् सततोदिते' इति । यथावा रसगङ्गाधरे-'परस्परासङ्गसुखानतभ्रवः पयोधरौ पीनतरौ बभूवतुः । तयोरमृष्यन्नयमुन्नतिं परामवैमि मध्यस्तनिमानमञ्चति' इति । अपिच-निःसीमशोभासौभाग्यं नताङ्गया नयनद्वयम् । अन्योन्यालोकनानन्दविरहादिव चञ्चलम्' इति । अन्यच्च 'जनमोहकरं तवालि मन्ये चिकुराकारमिदं घनान्धकारम् । वदनेन्दुरुचामिहाप्रचारादिव वन्तङ्गि नितान्तकान्ति कान्तम्' इति ॥ १४९ ॥ एवमसिद्धास्पदामपि. हेतूत्प्रेक्षा लक्षयति-असिद्ध इति । शिष्टं तु प्राग्वदेव । तामुदाहरति-तावकत्वादिति । मयीत्यार्थिकम् । अत्र स्मरकर्तृकखपीडने शांभवत्वं हेतुरुक्तः । सतु नैव संभवतीति असिद्धास्पदत्वं हेतूत्प्रेक्षायां युक्तमेवेति भावः । यथावा कुवलयानन्दे—'विवखताऽनायिषतेव मिश्राः खगोसहस्रेण समं जनानाम् । गावोऽपि
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy