________________
४२८
रम्।
साहित्यसारम् ।
[उत्तरार्ध वर्ण्यस्य विषयित्वेन सोक्तौ रूपकपूर्विका।
सतडिच्छरदम्भोदः स्मृत्या नस्तापशान्तये ॥ १५६ ॥ प्रतिपादितोत्प्रेक्षासामग्रीसमपेक्षितरूपकाद्यलंकारान्तरसंमिश्रिततत्तदुदाहरणानां संसृष्टयादिविषयकत्वापात इतिचेन्न । तत्र गत्यन्तराभावेन नियमान्तरस्यैवान्यथानुपपत्तिसिद्धस्येष्टत्वादित्याह-योति । यत्रोदाहरणे 'धूमस्तोमं तमः शङ्के' इत्यादी इतरं रूपकाद्यलंकारम् । ऋते विना । मुख्येति । मुख्यस्य प्रधानस्योत्प्रेक्षादेः सिद्धिर्व्यवहार एवेत्यर्थः । न भवति । तत्र स्थले सः रूपकादिः उपजीव्यतया उपजीवितुं खसामग्र्युपायत्वेनाश्रयितुं योग्य उपजीव्यस्तस्य भाव उपजीव्यता तयेत्यर्थः । संसृष्टयादीति । आदिना संकरः । स्पष्टखभानेन संसृष्टिकर्ता गूढस्वभानेन संकरकर्ता वेत्यर्थः । मतः प्राचामाचार्याणां संमत इत्यर्थः । एतादृशः नैव भवतीत्यन्वयः । यद्येवं नियमो न सर्वालंकारिकसंमतः स्याचेत्तर्हि सरस्वतीकण्ठाभरणे अतिशयोक्तिं प्रकृत्य तनुत्वातिशयो यथा-'स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव । अस्ति नास्तीति संदेहो न मेऽद्यापि निवर्तते' इति संदेहघटितं तदुदाहरणं काव्यप्रकाशे उन्मेषं य इति काव्यलिङ्गादिघटितमुत्प्रेक्षोदाहरणं च नैवोक्तं स्यात् । उपलक्षणमिदमाचार्यान्तरोदाहरणानामपि । तस्मात्तदन्यथानुपपत्त्यायमेव नियमः साधीयानित्याशयः ॥ १५५ ॥ अथोद्दिष्टक्रमेणातिशयोक्तिसप्तकमपि लक्षणप्रमाणोदाहरणैः प्रपञ्चयिष्यन्नादौ रूपकातिशयोक्तिं लक्षयति-वर्ण्यस्येत्यर्धेन । वर्ण्यस्य विषयापराभिधोपमेयस्येत्यर्थः । विषयत्वेन उपमानत्वेन उक्तौ सत्याम् । सा प्रकृता अतिशयोक्तिः रूपकेति । रूपकेत्यानुपूर्वी पूर्वं यस्यां सा तथा रूपकातिशयोक्तिः स्यादिति संबन्धः । एवमेवापि । एवंच विषयस्य विनिगरणपूर्वक विषयितावच्छेदकावच्छिन्नरूपेण विषयिवाचकशब्दबोध्यत्वं रूपकातिशयोक्तित्वमिति तल्लक्षणं विशेषतः पर्यवस्यति । इदंच बोधनमाहार्यमेवेति न बाधविरोधः । कवीच्छयैव विषयोत्कर्षविशेषाधानार्थमेव तथा कल्पनात् । अत्र रूपकेऽतिव्याप्तिव्यावृत्तये विनिगरणपूर्वकमिति । तदुक्तं रसगङ्गाधरे 'विषयिणा विषयस्य निगरणमतिशयस्तस्योक्तिः । तच्च स्ववाचकपदेन शक्यतावच्छेदकरूपेणैवान्यस्य बोधनम्' इति । तामुदाहरति-सेति । साम्ब इत्यर्थः । एतेन गौरीविद्युतोः शिवशरदम्बुदयोश्च क्रमात् कनकवर्णत्वकुमुदबान्धवधवलत्वलक्षणसाधर्येण विषयोत्कर्षाधानं ध्वन्यते । स्मृत्या स्मरणमात्रेणैव नः अस्माकम् । तापेति संसारसंतापसमपनुत्तये भवतीत्यर्थः। एतेन शरन्मेघः कदाचित्सतडिदपि दैवादातपजन्यसंतापहारकः सूर्यमाच्छाद्यैव भवति नतु तमनाच्छाद्य खविषयकसंस्कारजन्यान्तःकरणवृत्तिमात्रेणेति वैधर्येण तदावेद्यत इति ध्येयम् । यथावा काव्यप्रकाशे-'कमलमनम्भसि कमले कुवलये च तानि कनकलतिकायाम् । साच सुकुमारसुभगेत्युत्पातपरम्परा केयम्' इति । यथावा कुवलयानन्दे–'वापी कापि स्फुरति गगने तत्परं