SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ] " सरसामोदव्याख्यासहितम् । उक्त सा विषयस्यान्यत्वेन भेदकपूर्विका । श्रीगुरोः करुणान्यैव विद्याप्यन्यैव दृश्यते ॥ १५७ ॥ योगस्य वर्णनेऽयोगे सा स्यात्संबन्धपूर्विका अयोध्यासौध एवासीच्चन्द्रस्य श्रीशभाषणम् ॥ १५८ ॥ सूक्ष्मपद्या सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली । अग्रे शैलौ सुकृति सुगमौ चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृतं संनिधानात्सुधांशोः' इति । यथावा'सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरञ्ज्योत्स्नामच्छां नवलवलिपाकप्रणयिनीम् । उपप्राकारा प्रहिणु नयने तर्कय मनागनाकाशे कोऽयं गलितहरिणः शीतकिरणः' इति । यथावा साहित्यदर्पणे - 'कथमुपरि कलापिनः कलापो विलसति तस्य तलेष्टमीन्दुखण्डम् । कुवलययुगुलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात्' इति । यथावा रसगङ्गाधरे – 'कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन्सदा पथि गतागतश्रमभरं हरन्प्राणिनाम् । लतावलिशतावृतो मधुरया रुचा संभृतो ममाशु हरतु श्रमानिति तमांस्तमालद्रुमः' इति । 'स्फुरत्कनकका न्तिभिर्नवलताभिरावेष्टितो मम' इति चपाठः । अत्र तमालेन भगवतो निगरणे कलिन्दनन्दिनीत्यादीनि त्रीणि चरणत्रयगतानि विशेषणानि तदनुग्रहार्थं विषयविषयिणोः साधारणधर्मतया साक्षादुपात्तानि । चतुर्थमपि चतुर्थचरणगतमवैयाकरणानां दर्शने वैयाकरणानां तूपात्तया तमालाभिन्नकर्तृकया श्रमहरणक्रिययोनीतं तादृशक्रियाकर्तृत्वं तथातया स्थितम् । द्वितीयचरणे चोच्चावचयोनिसंचारणस्य पथ्यादिना । तृतीयेऽपि लताभिर्गोपीनां निगरणं तस्मिन्नेवानुग्राहकतया । एवंच सावयवेयमतिशयोक्तिः । यत्र चानुग्राहकं न निगरणान्तरं किंतु शुद्धं साधारणधर्मादि सा निरवयवा । यथा ' नयनानन्दसंदोहतुन्दिलीकरणक्षमा । तिरयत्वाशु संतापं कापि कादम्बिनी मम' इति । तच्च विषयितावच्छेदकं क्वचित्प्रकृते निगरणदायय विषयमात्रवृत्तिधर्मस्वसमानाधिकरणधर्मशून्यत्वाभ्यां प्रसिद्धम् । यथा कलिन्दनगनन्दिनीत्यादौ तमालत्वादि । क्वचिदप्रसिद्धमपि कल्पितोपमादावुपमानमिव कविना स्वप्रतिभया कल्पितम् । धर्मिण इव धर्मकल्पनाया अविरुद्धत्वात् । यथा ' स्मृतापि तरुणातपम्' इत्यादि ॥ १५६ ॥ एवं रूपकातिशयोक्तिं निरूप्याथ भेदकातिशयोक्तिं लक्षयति-उक्ताविति । विषयस्य उपमेयस्य । अन्यत्वेन उक्तौ सत्यां सा अतिशयोक्तिः भेदकपूर्विका भेद कातिशयोक्तिर्भवतीति योजना । तामुदाहरति - श्रीगुरोरिति । यथावा कुवलयानन्दे—‘अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी । नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः' इति । रसगङ्गाधरेपि —- 'अन्या जगद्धितमयी मनसः प्रवृत्ति रन्यैव कापि रचना वचनावलीनाम् । लोकोत्तरा च कृतिराकृतिरार्यहृद्या विद्यावतां सकलमेव चरित्रमन्यत्' इति ॥ १५७ ॥ अथ संबन्धातिशयोक्ति लक्षयतियोगस्येति । अयोगे असंबन्धेपि योगस्य संबन्धस्य वर्णने सति सा अतिशयोक्तिः ४२९
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy