Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
४४१
कौस्तुभरनम् ८] सरसामोदव्याख्यासहितम् । क्यतदर्थविचारोपदेशस्य साक्षाजनकत्वाभावः कैमुत्यसिद्ध एवेति भावः । एतादृशः अतएव ईशः परमेश्वरः क्व आप्नुयात् । क्वशब्द आक्षेपे। नैव प्राप्नुयादित्यन्वयः । अत्रोपमानात्परोक्षादीश्वरादुपमेये श्रीगुरौ अपरोक्षत्वापरोक्षज्ञानदातृत्वादिगुणैरुत्कटत्ववर्णनसत्वालक्षणसंगतिः । यथावा काव्यप्रकाशादौ-क्षीणः क्षीणोऽपि शशी भूयोभूयोऽभिवर्धते नितराम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु' इति । अत्रोपमानीभूतात् भूयः क्षीणत्वेपि पुनः पुनरभिवर्धमानत्वेन सुलभशोभाच्छशिनः सकाशादुपमेये यौवनेऽनिवर्तित्वेन दुर्लभत्वध्वननादाधिक्यसत्वेन लक्षणसमन्वयः । एवमेव वक्ष्यमाणोदाहरणेष्वपि तत्रतत्र बोध्यम् । यथावा तत्रैव-'इयं सुनयना दासीकृततामरसत्रिया। आननेनाकलङ्केन निन्दतीन्दु कलंकिनम् ' इति । यथावा कुवलयानन्दे–'पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर । भूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते' इति। एवमयमुपमेयाधिक्यप. र्यवसायी व्यतिरेक इति ग्रन्थेन 'व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोबताः सन्तः किंतु प्रकृतिकोमलाः' इति वकृतकारिकानुगुणं खसंमतमुपमेयाधिक्यपर्यवसायिनं व्यतिरेकमुदाहृत्याने अलंकारसर्वस्वकारादिमतरीत्यैव यथाश्रुतग्राहिणां तावदुपमेयन्यूनत्वतत्साम्यप्रतिपादकं वस्तुतस्तु प्रेक्षावतां दृशोकखसंमतोपमयोत्कर्षमात्रपर्यवसायि व्यतिरेकोदाहरणद्वयमुक्तम् । तद्यथा-'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः' इति । अत्र यथाश्रुते ह्युपमेयन्यूनवं स्पष्टमेव तथापि सकृदेव कान्तापादतलाहतिस्तव मुदे संपन्ना तावतैव तव लोके ह्यशोकत्वेन ख्यातिरभूत्परंतु तदुत्तरं तदालिङ्गनादि बहिःसंभोगस्यापि तवाभाव एव सर्वथा वर्तते किं पुनरन्तःसंभोगे वक्तव्यम् । एवं मम तु नास्त्येव किंतु प्राग्यथेच्छं सबाह्याभ्यन्तरसंभोग एव कान्तायाश्चिरकालं समभूदिदानीं तु किंचित्कालं दैवप्रातिकूल्येन तद्वियोगेपि भाविभूरितद्योगसंभावनसत्वेऽप्यहं रसज्ञचक्रवर्तित्वेन तावतैव शोचामि वं तु तदुभयाभावेऽपि क्षणिकतत्पादस्पर्शानुभूतविपुलसुखत्वे. नाशोकत्वख्यातिमात्रेणैव जडत्वेन शोकशतसंभावनायामपि न शोचसीति त्वय्येव न्यूनत्वं मदपेक्षयेति सूक्ष्मतमविचारे तूपमेयाधिक्यमेव पर्यवस्यति सहृदयधौरे. याणां तद्वत् चरमोदाहरणमपि । यथावा-'दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः' इति । अत्रापि न वास्तविकमनुभयपर्यवसायिलं किंतु यथाश्रुतग्राहिणः कस्यचिदलंकारसर्वखकारादिवन्मत एव तत् । वस्तुतस्तूपमेयाधिक्यपर्यवसाय्येवेदमपि । तथाहि अत्रोपमा. नीभूते कृपाणे तावत्कदाचिद्रणाङ्गणे महावीरकरगतत्वेन करिवरदन्तदलनप्रसङ्गा. घाते मुष्टिविनिर्मोकः संभाव्यत एव परंतूपमेये कृपणे प्राणान्तेपि वितरणप्रावण्यलक्षणोऽसौ खप्नेऽपि नैव संभाव्यत इति तस्यैवोत्कर्षः । एवं कृपाणः कदाचिद्र

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576