Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 435
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ४१९ अन्यभ्रान्तेर्निरासेन भ्रान्तापह्नतिरुच्यते । रोमाञ्चयति मां नित्यं शीतं किं न प्रियामुखम् ॥१३९ ॥ अन्यप्रश्ने सतच्छादने च्छेकापह्नतिर्मता। वक्षोजौ लालयन्कि ते कान्तो नो देवच्छन्दकः ॥ १४० ॥ कैतवादिपदैनिद्भुतेर्व्यक्तौ तदपद्भुतिः। ब्रह्मविद्याजतो ब्रह्मलोके व्यवहरत्यहो ॥ १४१ ॥ तत्कारणीभूतस्य कान्तायां कटाक्षपातमात्रेण सर्वजनानां तल्लाभाभावेन मृत्युतुल्यदुःखव्यामोहादिजनकत्वस्य चार्थादेव सिद्धत्वात् ॥ १३८ ॥ तथा भ्रान्तापहृतिमपि लक्षयति-अन्येति । तामुदाहरति-रोमाञ्चयतीति । इदं हि स्वसखं प्रति श्रीकृष्णवाक्यम् । 'रोमाञ्चो रोमहर्षणम्' इत्यमरात्संजातरोमहर्षे करोतीत्यर्थः । यथावा गीतगोविन्दे-'जटा नेयं वेणीकृतकचकलापो न गरलं गले कस्तूरीयं शिरसि शशिरेखा न कुसुमम् । इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा पुरारातिभ्रान्त्या कुसुमशर मां किं व्यथयसि' इति ॥ १३९॥ एवं च्छेकापह्नुतिं लक्षयति-अन्येति । सतः सत्यस्य । तामुदाहरति-वक्षोजाविति । आसेति शेषः । 'हारो मुक्तावली देवछन्दोऽसौ शतयष्टिका' इत्यमरः। यथावा कुवलयानन्दे–'सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । नागरिकः किं मिलितो नहि नहि सखि हैमनः पवनः' इति । अपिच-वदन्ती जारवृत्तान्तं पत्यौ धूर्ता सखीधिया । पतिं बुध्वा सखि ततः प्रबुद्धास्मीत्यपूरयत्' इति ॥ १४० ॥ इदानीं कैतवापह्नुतिं लक्षहति-कैतवादीति । तदिति । कैतवापह्नुतिर्भवतीत्यर्थः । अथैनामुदाहरति-ब्रह्मविदिति । तत्त्वज्ञमिषेणेत्यर्थः। अहो इत्याश्चर्येलोके ब्रह्मैव व्यवहरतीत्यन्वयः।तथाचाम्नायते-'ब्रह्म वेद ब्रह्मैव भवतिइति । ज्ञानी त्वौत्मव मे मतम्' इति स्मर्यतेपि । यथावा काव्यप्रकाशे-'बत सखि कियदेतत्पश्य वैरं स्मरस्य प्रियविरहकृशेऽस्मिन्रागिलोके तथापि । उपवनसहकारो' द्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोदृङ्कितं कालकूटम्'इति । यथावा मदीये कृष्णलीलामृते-'रतिसखी किमु बल्लववल्लभः परिनिषेवितुमुज्ज्वलदर्पणम् । रविमिषाप्रकटीकुरुतेऽरुणं तदभवत्तदलौकिकरागतः' इति । ननु भावत्कमिदमुदाहरणं रतिसखीति रूपकस्य ततः परिनिषेवितुमित्यन्तमुत्प्रेक्षायाः प्रकटीकुरुत इत्यन्तं कैतवापहृतेः शेषेण गम्योत्प्रेक्षाया अतिशयोक्तेर्वा स्पष्टमेव भानात्संसृष्टौ योग्य न तु कैतवापढ्ताविति चेत्सत्यम् । एतत्पर्यनुयोगस्य प्रकाशकारोदाहरणेऽपि प्रकृत एव तुल्यत्वात् । तथाहि तत्रापि सखीरागिलोकोपवनपदेषु परिकराडरस्य प्रियेत्यादिपदे परिकरस्य च्छलपदे कैतवापहृतेरवशिष्टे गम्योत्प्रेक्षायाश्च गूढं सत्वात्संकरोदाहरणत्वमेव वक्तुमुचितम् । यदि तत्र कैतवापह्नुतिरप्यस्तीति ब्रूषे तर्हि मामकोदाहरणेऽपि च्छलपदवन्मूलकारिकायामादिपदगृहीतव्याजच्छलमिषकपटच्छमादिपदानां कैतवपर्यायत्वेन तत्सत्वादिति सामान्यमेवेति

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576