________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
४१९ अन्यभ्रान्तेर्निरासेन भ्रान्तापह्नतिरुच्यते । रोमाञ्चयति मां नित्यं शीतं किं न प्रियामुखम् ॥१३९ ॥ अन्यप्रश्ने सतच्छादने च्छेकापह्नतिर्मता। वक्षोजौ लालयन्कि ते कान्तो नो देवच्छन्दकः ॥ १४० ॥ कैतवादिपदैनिद्भुतेर्व्यक्तौ तदपद्भुतिः।
ब्रह्मविद्याजतो ब्रह्मलोके व्यवहरत्यहो ॥ १४१ ॥ तत्कारणीभूतस्य कान्तायां कटाक्षपातमात्रेण सर्वजनानां तल्लाभाभावेन मृत्युतुल्यदुःखव्यामोहादिजनकत्वस्य चार्थादेव सिद्धत्वात् ॥ १३८ ॥ तथा भ्रान्तापहृतिमपि लक्षयति-अन्येति । तामुदाहरति-रोमाञ्चयतीति । इदं हि स्वसखं प्रति श्रीकृष्णवाक्यम् । 'रोमाञ्चो रोमहर्षणम्' इत्यमरात्संजातरोमहर्षे करोतीत्यर्थः । यथावा गीतगोविन्दे-'जटा नेयं वेणीकृतकचकलापो न गरलं गले कस्तूरीयं शिरसि शशिरेखा न कुसुमम् । इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा पुरारातिभ्रान्त्या कुसुमशर मां किं व्यथयसि' इति ॥ १३९॥ एवं च्छेकापह्नुतिं लक्षयति-अन्येति । सतः सत्यस्य । तामुदाहरति-वक्षोजाविति । आसेति शेषः । 'हारो मुक्तावली देवछन्दोऽसौ शतयष्टिका' इत्यमरः। यथावा कुवलयानन्दे–'सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । नागरिकः किं मिलितो नहि नहि सखि हैमनः पवनः' इति । अपिच-वदन्ती जारवृत्तान्तं पत्यौ धूर्ता सखीधिया । पतिं बुध्वा सखि ततः प्रबुद्धास्मीत्यपूरयत्' इति ॥ १४० ॥ इदानीं कैतवापह्नुतिं लक्षहति-कैतवादीति । तदिति । कैतवापह्नुतिर्भवतीत्यर्थः । अथैनामुदाहरति-ब्रह्मविदिति । तत्त्वज्ञमिषेणेत्यर्थः। अहो इत्याश्चर्येलोके ब्रह्मैव व्यवहरतीत्यन्वयः।तथाचाम्नायते-'ब्रह्म वेद ब्रह्मैव भवतिइति । ज्ञानी त्वौत्मव मे मतम्' इति स्मर्यतेपि । यथावा काव्यप्रकाशे-'बत सखि कियदेतत्पश्य वैरं स्मरस्य प्रियविरहकृशेऽस्मिन्रागिलोके तथापि । उपवनसहकारो' द्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोदृङ्कितं कालकूटम्'इति । यथावा मदीये कृष्णलीलामृते-'रतिसखी किमु बल्लववल्लभः परिनिषेवितुमुज्ज्वलदर्पणम् । रविमिषाप्रकटीकुरुतेऽरुणं तदभवत्तदलौकिकरागतः' इति । ननु भावत्कमिदमुदाहरणं रतिसखीति रूपकस्य ततः परिनिषेवितुमित्यन्तमुत्प्रेक्षायाः प्रकटीकुरुत इत्यन्तं कैतवापहृतेः शेषेण गम्योत्प्रेक्षाया अतिशयोक्तेर्वा स्पष्टमेव भानात्संसृष्टौ योग्य न तु कैतवापढ्ताविति चेत्सत्यम् । एतत्पर्यनुयोगस्य प्रकाशकारोदाहरणेऽपि प्रकृत एव तुल्यत्वात् । तथाहि तत्रापि सखीरागिलोकोपवनपदेषु परिकराडरस्य प्रियेत्यादिपदे परिकरस्य च्छलपदे कैतवापहृतेरवशिष्टे गम्योत्प्रेक्षायाश्च गूढं सत्वात्संकरोदाहरणत्वमेव वक्तुमुचितम् । यदि तत्र कैतवापह्नुतिरप्यस्तीति ब्रूषे तर्हि मामकोदाहरणेऽपि च्छलपदवन्मूलकारिकायामादिपदगृहीतव्याजच्छलमिषकपटच्छमादिपदानां कैतवपर्यायत्वेन तत्सत्वादिति सामान्यमेवेति