________________
४१८
साहित्यसारम् ।
सयुक्तिके सदारोपे हेत्वपहुतिरुच्यते । नेदमिन्दुरनङ्कत्वात्कित्विदं मुकुरो रतेः ॥ १३७ ॥ पर्यस्तापहुतिर्धर्मनिह्नवोऽन्यत्र सिद्धये । नामृतं दिवि किंत्वेतत्तरुण्या अधरे चिरम् ॥ १३८ ॥
[ उत्तरार्धे
तेऽति लघुभूते विषयापह्नवरूपे सामान्यतः संसिद्धेऽधुनोद्दिष्टषोढाप्रकारां तां प्रत्येकं संलक्ष्योदाजिहीर्षुः प्रथमं शुद्धत्वावच्छिन्नां तां लक्षयति-सेत्यर्धेनैव । यत्र आहार्येति । 'आहार्य बाधकालीन मैच्छिकं ज्ञानमुच्यते' इति तल्लक्षणातादृशी या सद्बुद्धिचमत्कारकारिणी धीवृत्तिस्तदर्थमित्यर्थः । धर्मस्य विषयतावच्छेदकस्य निह्नवः अपलापोऽस्ति सा शुद्धा अपह्नुतिर्भवतीत्यन्वयः । अथ तामुदाहरति-नायमित्यर्धेनैव । एवमग्रेऽपि । अत्र स्त्रीपदेन शच्यादीनां मुख्यामुख्यानां सर्वासामपि संग्रहः सूच्यते । यथावा काव्यप्रकाशे - ' अवाप्तः 'प्रागल्भ्यं परिणतरुचः शैलतनये कलंको नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि' इति । यथावा कुवलयानन्दे – 'अङ्कं केपि शशंकिरे जलनिधेः पङ्कं परे मेनिरे सारङ्गं कतिचिच्च संजगदिरे भूछायमैच्छन्परे । इन्दौ यद्दलितेन्द्रनीलश कलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे' इति । इह पक्षोपन्यासात्तत्तदुत्प्रेक्षितधर्मापह्नव आर्थ एवेति पूर्वस्माद्विशेषः ॥ १३६ ॥ एवं हेलपहुतिं लक्षयति-सयुक्तिक इति । तामुदाहरति — नेदमिति । इदं पुरोवर्ति स्वीयामुखम् । यथावा काव्यप्रकाशे - 'अमुष्मिल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः । यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः' इति 1 अत्र धूमशिखा रोमावलीवपुः परिणमतीति परिणामशब्दार्थवशान्नेयं रोमावलिः किंतु धूमशिखेति प्रतीयत इति प्रदीपः । कुवलयानन्देपि - ' मन्थानभूमिधर मूलशिलासहस्रसंघट्टनव्रणकिणः स्फुरतीन्दुमध्ये | छायामृग: शशक इत्यपि पामरोक्तिस्तेषां कथंचिदपि तत्र नहि प्रसक्तिः' इति ॥ १३७ ॥ तद्वत्पर्यस्तापह्नुतिं लक्षयति – पर्यस्तेति । अन्यत्रेति । उपमान इत्यर्थः । सिद्धये तादात्म्यज्ञानार्थम् । धर्मनिह्नवः उपमेयतावच्छेदकधर्मस्य तदधिकरणावच्छेदेनापलाप इति यावत् । पर्यस्तापह्नुतिरस्वीति संबन्धः । तामुदाहरति-नामृतमिति । तरुण्याः । सर्वस्त्रीगुणविशिष्टस्वयुवत्या इत्यर्थः । यथावा कुवलयानन्दे – ' हालाहलो नैव विषं विषं रमा जनाः परं व्यत्ययमत्र मन्वते । निपीय जागर्ति सुखेन तं शिवः स्पृशन्निमां मुत्यति निद्रया हरिः' इति । मदीयाद्वैतामृतमञ्जर्यामपि – 'अतिशीघ्रगोऽपि मन्दं गच्छन् दृष्द्दैव जीवितं हर्तुम् । जनयति कान्ताभ्रान्ति कालोऽयं लोललोकस्य' इति । पूर्वोदाहरणेऽपह्नवस्तद्धेतुश्च शाब्द एव । इह तु तदुभयमप्यामिति विशेषः । काळाख्यदेवताविशेषनिष्ठसर्वसंहारकत्वरूप कालत्वा पहवस्य