SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ सरसामोदव्याख्यासहितम् । सा शुद्धाहार्यध्यै यत्र धर्मस्य निह्नवः । नायं विवस्वान्क त्विन्द्रस्त्री कुङ्कुमकरण्डकः ॥ १३६ ॥ कास्तुभरत्नम् ८ ] ४१७ 1 दलंकारान्तरत्वं तर्हि प्रकृतेऽपि तुल्यमिति । एवं सांप्रदायिकसारस्यं क्व पर्यवसन्नं प्रकृत इति भवतैवानुसंधेयम् । नाप्यन्त्यः । अनुपलब्धेः । एतेनाग्रिमग्रन्थे एवं विषयापह्नव इत्यादिना नात्र प्रवर्तत इत्यन्तेनोकोऽलंकार सर्वस्वकृतलक्षणस्य प्रकृते प्रवृत्त्यभावोऽपि प्रत्युक्तः । तद्यथा । तत्र तावद्विषयापह्नवे वस्त्वन्तरप्रतीतावपद्धतिरित्येतावन्मात्रमुक्तं तेन वियषपदं ह्युपमेयमात्रपरं तच्च 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् इत्यत्र प्रेयसीमुखमेव तस्य तु प्रकृतेऽपह्नवो नैवास्तीति तल्लक्षणस्याप्रवृत्तिरिति भवतामाशयस्तु निर्विवाद एव । परंत्वसौ ऊर्ध्वतनस्वीयग्रन्थाननुसंधानमूलक एव प्रतिभाति । तत्र हि प्रतीपप्रकरणे तत्पञ्चविधत्वं प्राचामनुसारेणाभिधायोक्तम् । वस्तुतस्तु आद्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः, चतुर्थः केषांचिदाक्षेपे पञ्चमस्त्वनुक्तवैधर्म्ये व्यतिरेके तथाहि निष्पद्यमानं सुन्दरं वा सादृश्यमुपमा । नह्यायें प्रतीपे मुखमिव कमलमित्यादौ सादृश्यस्यानिष्पत्तिर सौन्दर्यं वास्ति । येनोपमातो बहिर्भावः स्यात् । सौन्दर्यविशेषस्य त्वयाप्यभ्युपगमात् । विशेषस्य सामान्यानिवारकत्वात् । नहि प्रसिद्धकमलादिप्रतियोगिकमेव सादृश्यमुपमेति राज्ञामाज्ञास्ति । नचोपमाविरुद्धवाचिनः प्रतीपशब्दमाहात्म्यादेव तादृशं सादृश्यमुपमेति शक्यं वक्तुम् । उपमाविशेषविरुद्धवाचकत्वेनापि तदुपपत्तेरिति । तेन प्रकृते सुधांशोरपि वर्ण्यत्वलक्षणोपमेयत्वसंभवेन तत्र कलङ्कित्वादिप्रसिद्धदोषत्रमोषार्थं तदधिकगुणवन्निर्दुष्टत्वादिना प्रेयसीमुखतादात्म्यवर्णने विवक्षिते विषयस्य दिविष्ठत्वेन पुरोवर्तिनः प्रत्यक्ष सुधांशोरपवस्तथा वस्त्वन्तरी भूतकामिनीमुखसायुज्येन तन्मात्रस्य प्रतीतिरपि निर्बाधैवेति कुतोऽस्य तल्लक्षणबहिर्भाव इति भवतैव विभावनीयम् । एवंच 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् । सा स्यादपह्नुतिर्वाक्यभेदाभेदवती द्विधा' इति चित्रमीमांसालक्षणमपि प्रकृते समन्वितत्वेन व्याख्यातम् । प्रकृतो हि विरहिणः श्रीरामादेर्नायकस्य दिविष्टश्चन्द्रः प्रत्यक्षः स्तुत्या विरहदशायामात्मदेहदाहप्रहाणाशावशाद्वर्ण्यश्च तथापि स्वाभाव्यात्ततो दाहमेवोपलभ्य सुधांशुसंज्ञावैपरीत्यान्नायं सुधांशुरित्यपह्नवं तस्य विधाय निरतिशयसुखहेतुत्वेन ततोऽधिकतम गुणवत्त्वात्सर्वथा निर्दुष्टत्वाच्च जानक्याख्यखप्रेयसीमुख एवोकसंज्ञासाम्राज्यस्येष्टत्वात् सद्योविलक्षणचमत्कारकारकत्वेनेत्थमेव सकलनिर्मत्सरसूरीश्वरैर्वाक्यार्थस्य समर्थनीयत्वाच्च । एतेन तस्मादित्यारभ्य दिगन्तस्तदग्रिमप्रन्थोऽपि स्फुटमेव प्रत्युक्तः सन् दिगन्तमेव गतोऽवगन्तव्यः । यदपि विमर्शिनी - कारमतमुदाहारि तदपि प्रागुक्तप्राचीनवचनैरेव दत्तोत्तरम् । तस्माद्विद्वचक्रवर्तिनां दीक्षितानां प्राचामाचार्याणां च रहस्यानवधानमूलक एवायं प्रलाप इति शिवम् ॥ १३५ ॥ एवं निर्दुष्टेऽपहुतिलक्षणे प्राचीनार्वाचीनाखिललक्ष्यानुग -
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy