SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [उत्तरार्धे ण्यस्य निष्प्रत्यूहं भानात् । तदुक्तं . विमर्शिन्याम्-'न विषं विषमित्याहुर्ब्रह्मखं विषमुच्यते' । अत्र विषस्य निषेधपूर्वं ब्रह्मखविषये आरोप्यमाणत्वात् दृढारोपं रूपकमेव नापह्नुतिरिति । यदिच प्राचीनमतमुपेक्ष्यालंकाररत्नाकरेणेव मयाप्ययं प्रकारो. पह्नुतिमध्ये गणित इत्युच्यते तदा आहार्यताद्रूप्यनिश्चयस्य समानत्वाद्रूपकभेद एवापह्नुतिरित्यप्युच्यता, निरस्यतां च प्राचीनमुखदाक्षिण्यम् । एवमपि चित्रमीमांसागतत्वनिर्मितापहृतिलक्षणस्यात्राव्याप्तिः स्थितैव । अपिच यदि 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र पर्यस्तापह्नुतिरित्युच्यते तदा तस्यामेव त्वत्कृतचित्रमीमांसागतस्य 'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिहृते । उपरञ्जकतामेति विषयी रूपकं तदा' इति रूपकलक्षणस्यातिव्याप्तिर्वज्रलेपायिता स्यात् । विषयिणोऽनिह्नवेऽपि विषयस्यानिद्भुतत्वात् । अथापि चित्रमीमांसायां प्राचीनमतानुसारेण रूपकलक्षणम् । कुवलयानन्दे च रत्नाकराद्यनुसारेणापहृतियोक्तिरिति यथाकथंचित्सामञ्जस्यं विधेयमिति दिगिति । तत्र प्रथममपह्नुतिसामान्यलक्षणानाक्रान्तत्वेन 'अन्यत्र तस्यारोपार्थः पर्यस्तापहृतिस्तु सः । नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इति कुवलयानन्दोक्तापहृतिभेदे तत्वाभावं प्रतिज्ञाय हेतूकृतं तत्सामान्यलक्षणाभावं प्रतिपादयितुं तथाहीति तदारम्भं विधाय प्रकृतमित्यादिना काव्यप्रकाशोक्तलक्षणमुक्त्वा इति काव्यप्रकाशोक्तलक्षणबहिर्भावः स्फुट एवेत्युक्तं पण्डितराजैस्तद्विचार्यते । किमेतल्लक्षणस्य सांप्रदायिकैः कृतविवरणरीत्या प्रकृते अभावः किंवा अभिनवभवदभिहितयुक्त्या । नाद्यः । इदं हि काव्यप्रकाशलक्षणं जयरामभट्टाचार्यैरेवं व्याख्यातम् । उपमेयमित्यादि । क्वाचित्कं किंचिदपहृत्य कस्यचित्प्रदर्शनमपट्ठतिरिति । न पञ्चेषुरित्यादावपगुतिरेव दण्डिनोक्तेति । काव्यप्रदीपकारैरपि–'प्रकृतं यनिषिद्ध्यान्यत्साध्यते सात्वपहृतिः' । प्रकृतमुपमेयं निषिध्यासत्यतया व्यवस्थाप्य अन्यदप्रकृतमुपमानं यत्साध्यते सत्यतया व्यवस्थाप्यते सापह्नुतिरिति । विवृतं चेदमुद्योते । प्रकृतमिति निषिध्येत्यन्तेन रूपकव्युदासः । तत्र प्रकृतनिषेधाभावात् । उपमेयमिति । इदमुपलक्षणम् । किंचिदपहृत्य कस्यचित्प्रदर्शनमपह्नुतिरित्येव लक्षणम् । अतएव 'केसेसुवला मोडिए' इत्यादौ स्वयं न प्रपलाय्य गतास्तद्वैरिणोपितु ततः पराभवं संभाव्य ते कंदरान त्यजन्तीत्यपह्नुतिय॑ज्यत इति प्रकाशकारैश्चः तुर्थे उक्तम् । एवंच 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यादावपह्नुतिरेव । अतएव दण्डिनोक्तम्-'अपह्नुतिरपहृत्य किंचिदन्यार्थसूचनम् । न पञ्चेषुः स्मरस्तस्य सहस्रं पत्रिणां यतः' इति । एतेन 'नायं सुधांशुः' इत्यादौ, 'न विषं विषमित्याहुर्ब्रह्मखं विषमुच्यते' इत्यादौ च नापहृतिः किंतु दृढारोपरूपकमिति परास्तम् । नेदं मुखं चन्द्र इति प्रसिद्धापहृत्युदाहरणेऽपि मुखलनिषेधे चन्द्रारोपदाद्यसंपादकताया वक्तुं शक्यत्वेनानुभवसिद्धत्वेन चापहृतिमात्रस्योच्छेदापत्तेः । यदि तु निषेधपूर्वकारोपे चमत्कारविशेषस्यानुभवसिद्धत्वा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy