SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४१५ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ४१५ षोढा कुवलयानन्दे मतैषा भिन्नलक्षणा । प्रत्येकं तत्र सामान्यलक्षणं विषयहुतिः ॥१३५॥ धर एव–'श्यामं सितं च सुदृशो न दृशोः स्वरूपं किंतु स्फुटं गरलमेतदथामृतं च । नोचेत्कथं निपतनादनयोः सदैव मोहं मुदं च नितरां दधते युवानः' इति । यथावासदद्वैतामृतमचर्याम्-'बहुगुणमयी नवीना तन्वी गिरिवरनितम्बतटलीना । कान्ता न वागुरेयं प्रसारिता कालभिल्लेन' इति ॥ १३४ ॥ ननु कुवलयानन्देऽपह्नुतिः षटूप्रकारा प्रतिपादितास्त्यथापि तत्रेदं सावयवादिभेदद्वयं नैव दृश्यत इति चेन । तस्य मते तथैवेष्टत्वादित्याशयेन तन्मतमनुवदति-बोढेत्यादि सप्तभिः । एषा अपहृत्याख्या प्रकृतालंकृतिः षोढा षड्डिधा कुवलयानन्दे । एतन्नामके श्रीमदप्पय्यदीक्षितग्रन्थ इत्यर्थः । प्रत्येकं एकैकं प्रति यथा स्यात्तथे. त्यर्थः । भिन्नेति । एतादृशी मता संमतास्तीत्यन्वयः । नन्वेवमपि तत्संमतभेदषट्के मतान्तरीयतद्भेदेषु चानुगतं तत्सामान्यलक्षणं किं स्यात् । नच तदीयायामेव चित्रमीमांसायां तदुक्तमेवेति वाच्यम् । तस्याप्येतत्संमतपर्यस्तापहृत्याख्यभेदेऽव्याप्तेः प्राचां काव्यप्रकाशकारादिकृतलक्षणानामपि चाव्याप्तेः सैव न संभवतीत्याशङ्कय समाधत्ते-तत्रेत्यादिशेषेण । तत्र कुवलयानन्दमते । विषयेति । विषयस्योपमेयस्य हुतिरपलाप एव सामान्यलक्षणं भवतीति योजना । एवं चोपमेयापलापो यत्र सुन्दरः प्रतीयते तादृशकाव्यप्रतिपाद्यत्वमपहृत्यलंकारखमिति तत्सामान्यलक्षणं पर्यवस्यति । स तु उपमेयतावच्छेदकस्य अपलाप एव । स च शाब्द एव विवक्षितो न लार्थस्तेन ‘कान्त्या स्मरवधूयन्ती' इत्यादा. वुपमेयमात्रलुप्तोपमायां नातिव्याप्तिः । तत्रोपमेयलोपस्यार्थत्वात् । 'अपलापस्तु निह्नवः' इत्यमरादपलापपदस्य शाब्दनिह्नव एव शक्तत्वाच । एवंच सर्वानुगतबालाघवाच युक्तमेवेदं लक्षणमिति बोध्यम् । एतेन रसगङ्गाधरोक्तदोषावमोषोपि । तथाहि । तत्र तावदपहृतिलक्षणादिनिरूप्यार एवमुक्तम् 'यत्तु कुवलयानन्दाख्ये संदर्भे अप्पय्यदीक्षितैरपह्नुतिप्रभेदकथनप्रस्तावे पर्यस्तापहृत्याख्यभेदं निरूपयद्भिरभिहितम् 'अन्यत्र तस्यारोपार्थः पर्यस्तापह्नुतिस्तु सः । नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इति । अत्र चिन्त्यते 'नायमपहृते दो वक्तुं युक्तः । अपह्नुतिसामान्यलक्षणानाक्रान्तत्वात् । तथाहि 'प्रकृतं यनिषिध्यान्यत्साध्यते सा त्वपहृतिः' । उपमेयमसत्यं कृत्वोपमान -सत्यतया यत्स्थाप्यते सापह्नुतिरिति काव्यप्रकाशोतलक्षणबहिर्भावस्तावत्स्फुट एव । एवं विषयापह्नवे वस्त्वन्तरप्रतीतावपट्ठतिरित्यलंकारसर्वस्वोक्त लक्षणमपि नात्र प्रवर्तते । 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् । सा स्यादपगु. तिर्वाक्यभेदाभेदवती द्विधा' इति चित्रमीमांसागतं त्वनिर्मितमपि लक्षणमिह तथैव । तस्मात् 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र दृढारोपं रूपकमेव भवितुमर्हति नापह्नुतिः । उपमेयतोपमानतावच्छेदकयोः सामानाधिकर
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy