SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४१४ साहित्यसारम् । [उत्तरार्ध रसगङ्गाधरे सामान्यादेषा द्विविधा मता। एका सावयवान्या तु तद्विरुद्धा क्रमाद्यथा ॥ १३२ ॥ एतेन कुन्तलाः किंतु भ्रमरास्तृप्तिनिश्चलाः। नेदं मुखमिदं पद्मं नेयं स्त्रीयं तु पद्मिनी ॥१३३ ॥ नेमे सितासिताः सन्ति कटाक्षाः स्वसुयोषितः । किंत्वनङ्गाङ्गसिद्धयर्थ नूना एव सितासिताः ॥ १३४ ॥ धात् स प्रसिद्ध एवेति तघ्यावृत्तिः । आरोप्यमाणपदेनाहार्यनिश्चयविषयीक्रियमाणत्वं विवक्षितम् । तेन 'संग्रामाङ्गणसंमुखाहतकियद्विश्वंभराधीश्वरव्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा । अङ्गारप्रखरैः करैः कवलयन्सद्यो जगन्मण्डलं मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः' इति रसगङ्गाधरीयपद्यएव भ्रान्तिमदलंकारपराकृतिः। तनिश्चयस्य विरहदोषजन्यत्वेनाहार्यत्वाभावात् । शिष्टं तु प्राग्वदेवेति दिक् ॥ १३१ ॥ अथास्या अपहृतेः ससंमतिकं सामान्यतो द्वैविध्यं विधत्ते-रसेति । तदिति । निरवयवेत्यर्थः । विस्तरस्तु तत एवावसेयः । प्रकृते गौरवादतिप्रयोजकत्वाभावाच्च नैव प्रपञ्च्यत इति रहस्यम् ॥ १३२ ॥ तत्रोद्देशानुसारेण प्रथमं सावयवामपहृतिमुदाहरति-एत इति । ननु भ्रमराणां कथं संयमनं तत्राह-तृप्तीति । इहोपकार्योपकारभावापन्नावयवसंघात्मकत्वात्सावयवत्वम् । एवं विषयतावच्छेदकस्य कुन्तलत्वादेर्यो निषेधस्तत्सामानाधिकरण्यनैवात्रारोप्यमाणं यद्भमरादिविषयितादात्म्यं तद्विषयकरुचिरज्ञानजनकप्रकृतवाक्यप्रतिपाद्यत्वात्सामान्यलक्षणमपि संमतं बोध्यम् । यथावा रसगङ्गाधरे-'स्मितं नैतत्कि तु प्रकृतिरमणीयं विकसितं मुखं ब्रूते मूढः कुसुममिदमुद्यत्परिमलम् । स्तनद्वन्द्वं मिथ्याकनकनिभमेतत्फलयुगं लता रम्या सेयं भ्रमरकुलनम्या न रमणी' इति । अत्र चरणत्रये अपह्नवपूर्वक आरोपापह्नुतिश्वरमचरणे त्वारोपपूर्वकापह्नुतिरिति बोध्यम् । तदुक्तं साहित्यदर्पणेऽपह्नुतिं प्रकृ. त्य-प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः' इति । तल्लक्षणं संक्षिप्य 'इयं च द्विविधा । क्वचिदपह्नवपूर्वक आरोपः क्वचिदारोपपूर्वकोपह्नव इति । क्रमेणोदाहरणम्-'नेदं नभोमण्डलमम्बुराशि ताश्च तारा नवफेनभङ्गाः । नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शथितो मुरारिः ॥ एतद्विभाति चरमाचलचूडबिम्बडिण्डीरपिण्डरुचिशीतमरीचिबिम्बम् । उज्ज्वालितस्य रजनी मदनानलस्य धूम दधत्प्रकटलाञ्छनकैतवेन' इति । अत्र डिण्डीरखण्डेति वाच्यम् । नोचेदुद्यत्परिमलमित्यस्येवाश्लीलत्वं स्यात्तेन तत्रापि 'कुसुममिदमामोदभरितम्' इत्येव न्या. य्यमिति दिकू ॥ १३३ ॥ एवं सावयवामपट्ठतिमुदाहृत्य क्रमप्राप्तां निरवयवामपि तामुदाहरति-नेम इति । स्वेति । अत्र खसुपदाभ्यां सुन्दर्या अपि परकीयायाः खकीयाया अप्यसुन्दर्याश्च व्यावृत्तितस्तृतीयपुमर्थसिद्धिव॑न्यते । अतएव किंत्वित्याद्युत्तरार्धम् । सितासिताः प्रयाग इत्यर्थः । यथावा रसगङ्गा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy