________________
४१३
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
केचित्त्यागैकनिष्ठत्वात्परे त्वैश्वर्यवत्त्वतः । एके तु संशयोच्छेदादेव साधून्भजन्त्यलम् ॥ १३०॥ विषयत्वनिषेधस्य सामानाधिकरण्यतः ।
आरोप्यमाणविषयितादात्म्यं स्यादपढुतिः ॥ १३१ ॥ मुमुक्षव इत्यर्थः । अयं इत्यार्थिकम् । मोक्तुमेव अस्मदादीजीवान् अविद्याद्यखिलदृश्यजालबन्धनानिष्काशयितुमेवेत्यर्थः । प्रकट: परमेश्वर एव मायिकलीलाविग्रहावच्छेदेनाविर्भूतोस्तीति शेषः । तथा भीरवः दरिद्राद्यखिलपीडाभीता इतियावत्। पातुमेव परिरक्षितुमेवेत्यर्थः । कर्मिणः कर्मठाः । कर्तुमेव संध्यावन्दनादिनिखिलखवर्णाश्रमादिसमुचितधर्मानुष्ठानार्थमेवेत्येतत् । विदुर्जानीयुरित्यन्वयः । प्रकट इति पदमुक्तमतद्वयेऽप्यनुकृष्य योज्यम् । यथावा रसगङ्गाधरे-'अर्थिनो दातुमेवेति त्रातुमेवेति कातराः । जातोऽयं हन्तुमेवेति वीरास्त्वां देव जानते' इति ॥ १२९ ॥ एवमेव हेतूल्लेखमप्युदाहरति-केचिदिति । त्यागेति । 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः' इति श्रुतेर्यावदृश्यसुखविषयकनिश्चलानादरमात्रनिरतत्वादित्यर्थः । साधूनलं भजन्तीत्यपकृष्य योज्यम् । परेत्विति । तुशब्दः पूर्ववैलक्षण्यार्थः । ऐश्वर्येति । अणिमाद्यखिलयोगसिद्धिशालिवादिति यावत् । साधूनित्याद्यत्रापि प्राग्वदेव संबन्ध्यते । एकेत्विति । संशयेति 'छिद्यन्ते सर्वसंशयाः' इति श्रुतेरद्वैतापरोक्षब्रह्मविद्याप्रदत्वादेवेत्यर्थः । शिष्टं तु स्पष्टमेव । पूर्वोदाहरणे उत्तमाद्यनुलोमक्रमोऽत्र तु तद्विपरीत इति ज्ञेयम् । एवं रसगङ्गाधरेऽनेककोट्येककोटयुल्लेखक्रम इह तूपजीव्योपजीवकभावादेकानेककोट्युल्लेखक्रम एवेत्यपि । यथावा तत्रैवम्-'हरिचरणनखरसङ्गादेके हरमूर्ध. संस्थितेरन्ये । त्वां प्राहुः पुण्यतमामपरे सुरतटिनि वस्तुमाहात्म्यात्' इति । एवं विस्तरोऽप्यत्र तत्रैव बोध्यः ॥ १३० ॥ एवमुल्लेखालंकारं निरूप्य तत्सामान्यलक्षणे एकस्य वस्तुन इत्यादिना प्राक्प्रतिपादितेऽनेकप्रकारकरुचिरधीकालावच्छेदेन विषयसंबन्धिनैसर्गिकप्रकारापह्नवप्रसङ्गसंगतमपहृत्यलंकारं सामान्यतः पण्डितराजरीत्यैव लक्षयति-विषयत्वेति । विषयत्वमुपमेयत्वमुपमेयतावच्छेदकीभूतं तस्य यो निषेध आहार्योऽपलापस्तस्येत्यर्थः। सामानेति । सामानाधिकरण्येनेति यावत् । आरोप्येति । आरोप्यमाणं स्वेच्छयैवाध्यस्यमानमेता. दृशं यद्विषयिण उपमानस्य तादात्म्यं ऐक्यविषयकज्ञानजनकवाक्यप्रतिपाद्यत्वमित्येतत् । तत् अपह्नुतिः स्यादपकुत्यलंकारत्वं भवेदित्यन्वयः । एवंच विषयतावच्छेदकनिषेधसामानाधिकरण्येनारोप्यमाणविषयितादात्म्यविषयकरुचिरज्ञानजनकवाक्यप्रतिपाद्यत्वमपहृत्यलंकारत्वमिति तत्सामान्यलक्षणं पर्यवस्यति । तदुक्तं रसगङ्गाधरे–'उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनारोप्यमाणमुपमानतादाम्यमपहृतिः' इति । तथाच लक्षणे तृतीयान्तेन रूपकनिरासः । तत्र रूपके तावदुपमेयोपमानतावच्छेदकयोर्न विरोध इह तूपमेयतावच्छेदकस्यैच्छिकनिषे