________________
४१२
साहित्यसारम् ।
[उत्तरार्धे योगिनो योगिनां मध्ये भोगिनोऽपि च भोगिनाम् । विदुषामपि विद्वांसः पिशुनाः कैर्विनिश्चिताः ॥ १२७ ॥ आत्मा भूमैव तत्त्वज्ञैः कतैवेति च कर्मठैः । देहादिसंघ एवान्यैः सर्वैरुल्लिख्यतेऽद्भुतम् ॥ १२८ ॥ यतयो मोक्तुमेवेति पातुमेवेति भीरवः ।।
प्रकटः कर्तुमेवेति कर्मिणस्त्वां गुरो विदुः ॥ १२९ ॥ एवं तत्रैव सामानाधिकरण्यभेदेनाप्येकस्यानेकोल्लेखमप्युदाहरति-योगिन इति । कैरिति । तत्तत्सामानाधिकरण्येन तत्तद्यपदेशव्यवहार्यत्वेनाव्यभिचारिखरूपनिर्णयाभावात्कैश्चिदपि पिशुना नैव निर्णीताः सन्तीत्याकूतम् । यथावा रसगङ्गाधरेएव–'विद्वत्सु विमलज्ञाना विरक्ता यतिषु स्थिताः । स्वीयेषु तु गरोद्गारा नानाकाराः क्षितौ खलाः' इति । अत्र विद्वदादिसहचरभेदप्रयुक्त खलानामनेकविधत्वमिति च तत्रैव विवृतिरपि ॥ १२७ ॥ एवमेकग्रहीतृकविषयाश्रयसामानाधिकरण्यभेदेन त्रिविधमुल्लेखमुद्देशक्रमानुसारेणैव समुदाहृयेदानीं तत्क्रमेणैव तमनेकग्रहीतृकोटिकमपि स्वरूपफलहेतुभेदेन त्रिविधमेवोदाहरन् प्रथमं खरूपोलेखमुदाहरति-आत्मेति । भूमैवेति । 'भूमात्वेव विजिज्ञासितव्यः' 'यो वै भूमा तत्सुखम्' इत्यादिश्रुतेः 'भूमा संप्रसादादध्युपदेशात्' इति शारीरकमीमांसासूत्राच त्रिविधपरिच्छेदात्मकाखिलदृश्यात्यन्ताभावोपलक्षितं सच्चिदेकसुखरूपं ब्रह्मैवेति यावत् । अत्र यद्यपि अन्यपदेनैव तत्त्वज्ञकर्मठेतरत्वावच्छेदेन यावत्संग्रहः सपन्न एव तथापि कर्मठापेक्षया नीचकोटिकानां पामराणामेवान्यपदेन संग्रहः स्यान्न सांख्यद्वयन्यायद्वयवादिनां कापिलादितैर्थिकाणां तथा तदेकदेशिनां माध्वरामानुजवल्लभीयादीनामपीति कस्यचिदाशङ्का स्याद्यतस्ते न तत्त्वज्ञाः नापि कर्मठास्तथाच तेषां कुत्रान्तर्भाव इति प्राप्ते, ये हि निरुक्तभेदवादिषु तत्तच्छास्वसिद्धान्तं यथावदेव ज्ञात्वा तदुक्तत्यागयोगादिसाधनैकनिष्ठास्ते कर्मठेष्वेवान्तर्भाव्याः। सिद्धान्ते ज्ञानेतरयावन्मोक्षसाधनानां कर्तुमकर्तुमन्यथाकतुं शक्यत्वेन कर्मत्वाभ्युपगमाये तु तत्तच्छास्त्राभिमानमात्रवन्तस्तेषां लोके पण्डितत्वेन व्यवहारात्तेषां तु क्वान्तर्भाव इति विमर्शे यदि ते देहाद्यतिरिक्तकरीत्मापरोक्षज्ञानवन्तः सन्ति तर्हि ते तत्तच्छास्त्रोक्तज्ञानेतरत्यागयोगाद्यग्रिमसाधननिष्ठाः कुतो न भव न्ति कुतः पुनर्धनैकनिष्ठाः प्रदृश्यन्त इत्यादियुक्त्या च तेषां देहादिसंघात्मवादिषु पश्वादिसाधारणपामरेष्वेवान्तर्भाव्यत्वमिति द्योतयितुं सर्वैरिति । अस्यापि शान्तरसोपस्कारकत्वादलंकारत्वम् । अन्यत्तूक्तरीत्यैवोह्यम् । यथावा रसगङ्गाधरे-'नरैवरगतिप्रदेत्यथ सुरैः खकीयापगेत्युदारतरसिद्धिदेत्यखिलसिद्धसंधैरपि । हरेस्तनुरिति श्रिता मुनिभिरस्तसझेरियं तनोतु मम शं तनोः सपदि शंतनोरङ्गना' ॥ १२८ ॥ अथ क्रमागतं फलोल्लेखमुदाहरति-यतय इति । अये गुरो' खां प्रति यतयः यतन्ते मोक्षार्थ प्रयत्नं कुर्वन्तीति तथा । संकलसाधनसंपन्ना