________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ४११
विषयाश्रयसामानाधिकरण्यभिधा त्रिधा। स्वरूपफलहेतूनां ग्रहीतृभिरपि त्रिधा ॥ १२४ ॥ निस्पृहोऽनाल्पसौख्येषु शुद्धधर्मेषु सस्पृहः । शास्त्रेषु चतुरास्यो मे नित्यं विजयते गुरुः॥१२५ ॥ सुहृदः पुण्यसक्तेषु सदयाः सर्वदुःखिषु।
सत्सु हृष्टा उदासीनाः खलेषु कति पण्डिताः॥ १२६॥ घोढा विभिन्नत्वं चाह--विषयेति । विषयश्चाश्रयश्च सामानाधिकरण्यं चेति तथा तेषां भिद्भेदस्तया वक्ष्यमाणविषयादिभेदेनेत्यर्थः । त्रिधा त्रिप्रकारकोऽयमु. ल्लेखालंकारो भवतीति किंचिदध्याहृत्य संबन्धः । तदुक्तं रसगङ्गाधर एव । अथ प्रकारान्तरेणाप्युल्लेखो दृश्यते । यत्रासत्यपि ग्रहीत्रनेकत्वे विषयाश्रयसमानाधिकरणादीनां संबन्धिनामत्यन्तमनेकत्वप्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वमिति । अथानेकाहीतृकोटिकोल्लेखस्यापि ग्राह्यस्वरूपफलहेतूनां भेदात्पुनस्त्रैविध्यं विधत्ते खरूपेत्यायुत्तरार्धेन । पुनरप्यसावुल्लेखालंकारः । स्वरूपेति । ग्रहीतृभिरपीत्यादि । विषयादिषण्णां वरूपाणि त्वनुपदमेवोदाहरणेषु स्पष्टीभविष्यन्तीति भावः ॥१२४॥ ततः क्रमेण षड़िधमपि तमुदाहरन्नादौ एकग्रहीतृकोटिगतमनेकविषयभेदेनैकस्यानेकोल्लेखमुदाहरति-नि:स्पृह इति । अनात्मेति । इष्टशब्दादिजन्यानन्देवित्यर्थः । सर्वत्रेह विषयसप्तम्येव । शुद्धति । तन्त्रगन्धास्पृष्टवैदिककर्मखित्यर्थः । यथावा रसगङ्गाधरे-'कातराः परदुःखेषु निजदुःखेष्वकातराः । अर्थवलोभा यशसि सलोभाः सन्ति साधवः' इति ॥ १२५ ॥ अथ तत्रैवाश्रयभेदेनकस्याने कोल्लेखमुदाहरति-सुहृद इति । सर्वेति । यावद्विपन्नेष्वित्यर्थः । तथाच पातञ्जलं सूत्रं 'मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्य विषयाणां भावनातश्चित्तप्रसादनम्' इति । यथावा कुवलयानन्दे-'अकृशं कुचयोः कृशं वलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे। अधरेऽरुणमाविरस्तु चित्ते करुणाशालि. कपालिभागधेयम्' इति । यथावा रसगङ्गाधरे–'तुषारास्तापसवाते तामसेषु च तापिनः । दृगन्तास्ताटकाशत्रोभूयासुर्मम भूतये' इति । ननु त्वदीये पूर्वोदाहरणेऽ नात्मसौख्यादौ विषयता प्रकृतोदाहरणे तु पुण्यसक्तादिष्वाश्रयता तथा, कुवलया. नन्दरसगङ्गाधरोदाहरणयोरेतयोरपि कुचतापसादिष्वप्याश्रयतैवेत्यत्र किं नियामकं सप्तम्यन्तत्वस्य स्थलचतुष्टयेऽपि तुल्यत्वादिति चेत्सत्यम् । कविविवक्षाया एव नियामकत्वात् । अतएव रसगङ्गाधरे तावदिदं पद्यमुदाहृत्योकम् इहत्वाश्रयानेकत्वप्रयुक्तमनेकविधत्वं दृगन्तानाम्' इति । आश्रयत्वमाधारत्वमेव । कुवलयान. न्दोदाहरणे त्ववच्छेदकत्वापराभिधं सर्वस्मिन्नात्मास्तीत्यादाविव व्याप्यत्वमेव सप्तम्यर्थ इष्टः । तदुक्तं ऐरावताख्ये द्वितीयरत्न एव–'आधारे विषये व्याप्येऽन्य. क्रियालक्षकक्रिये । सप्तमी कमले हंस आस्त इत्यादिके भवेत्' इति ॥ १२६ ॥