SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ४१० साहित्यसारम् । [उत्तरार्धे एकस्य वस्तुनोऽनेकप्रकारां रुचिरां धियम् । शब्दद्वारैव यः कुर्यात्स उल्लेख इह स्मृतः ॥ १२३ ॥ तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि' इति । रसगङ्गाधरे तु-'इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः । परिवर्तितकंधरं नतभ्रस्मयमानं वदनं न विस्मरामि' । अत्र स्मरणस्य चिन्तोद्बुद्धसंस्कारप्रयोज्यत्वान्नालंकारो व्यंग्यत्वविरहाच न भावः । एवम् 'दरानमत्कन्धरबन्धमीषनिमीलितस्निग्धविलोचनाब्जम् । अनल्पनिःश्वासभरालसागयाः स्मरामि सङ्गं चिरमङ्गनायाः' । इहापि स्मृतिन भावो नाप्यलंकारः । व्यङ्गय. स्यैव व्यभिचारिणो भावत्वादित्युक्त्वाग्रे किंचित्खण्डनाद्युक्त्वा, 'अगा, परितः पूर्णमालोक्य स महार्णवम् । हृदयं रामभद्रस्य सस्मार पवनात्मजः' इत्युपचरितं स्मरणमुदाहृतम् । विस्तरस्त्वत्र सरखतीकण्ठाभरणाद्याकरेष्वेवानुसंधेयः। प्रस्तुतेऽत्र तु मया विस्तरभयानैवासौ कृत इति दिक् ॥ १२२ ॥ एवं सामान्यतोऽन्यत्रान्यारोपरूपभ्रान्तिमदलंकारनिरूपणप्रसङ्गसङ्गतमुल्लेखालंकारं लक्षयति–एकस्येति।एकस्य वस्तुनःवर्ण्यस्य पदार्थस्य । अनेकेति । बहुविधाम् । तत्रापि रुचिरां सहृदयानन्दकत्वेन रम्यामित्यर्थः । एतादृशीं धियं बुद्धिवृत्तिं यः शब्दद्वारैव खवाचककाव्यद्वारेणैव नतु साधनान्तरेण कुर्यात् इह अलंकारशास्त्रे सः पदार्थ उल्लेख इति स्मृतः परिभाषितो भवतीन्वयः । तथाच एकत्वसंख्यावच्छिन्नवर्ण्यविषयकानेकप्रकारकरुचिरधीजनकशब्दैकप्रतिपाद्यवमुल्लेखालंकारत्वमिति तत्सामान्यलक्षणं सिद्धम् । अत्र भ्रान्तिमत्यतिव्याप्तिव्यावृत्तये विषयकान्तम् । मालारूपकेऽतिप्रसङ्गभङ्गायानेकप्रकारकेति । मृगजलकल्लोलमालां पश्येत्यादिशाब्दबोधविषये तयुदस्तये रुचिरेति । भित्तौ चित्रमिदं पश्येत्यादिस्थले भित्तिरूपाधिष्ठाने नानाविधकरितुरगनरनारीनगर्यादिरङ्गरचनाविशेषात्मकसोपाधिकभ्रमेतिव्याप्तिव्युच्छित्तये एकेति। तदुक्तं रसगङ्गाधरे-'एकस्य वस्तुनो निमित्तवशाद्यदनेकैग्रहीतृभिरनेकप्रकारं ग्रहणं तदुल्लेखः' इति । ननु तत्र निमित्तवशादनेकैर्ग्रहीतृभिरिति च निमित्तादि वया लक्षणे कुतो न निवेशितमिति चेन । निमित्तग्रहणस्य अनेकप्रकारकेत्यनेनैव चारितार्थ्यात् । नहि निमित्तमन्तरानेकप्रकारक उल्लेखः संभवति । अनेकैर्ग्रहीत. भिरित्यस्य त्वेकग्रहीतृकर्तृकोल्लेखेऽव्याप्तेः प्रकृते सामान्यलक्षणे ग्रहणं न कृतम् । तथाच खयमेव वक्ष्यति 'धर्मस्यात्मा भागधेयं क्षमायाः' इत्यादिमालारूपकेअतिप्रसङ्गवारणायानेकैर्ग्रहीतृभिरित्यविवक्षितबहुत्वकं ग्रहणविशेषणमिति प्रतिपाद्यै. तल्लक्षणं मध्ये किंचिद्रन्थं विलिख्य अथ प्रकारान्तरेणाप्युल्लेखो दृश्यते यत्रासत्यपि ग्रहीत्रनेकत्व इत्यादिना । तस्माद्युक्तमेवेदमिति ॥ १२३ ॥ एवमुल्लेखालंकारसामान्यलक्षणमुपपाद्य किं रूपकादेरिवास्यापि केचिद्भेदाः सन्ति नवेत्याशङ्कां शमयन्नेकग्रहीत्रनेकग्रहीतृकत्वभेदेन तत्कोटिद्वैविध्यं तस्य प्रत्येकं त्रैविध्यातू
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy