________________
४२०
साहित्यसारम् ।
निषिध्य भ्रामिकं तत्त्वबोधनं निश्चयो मतः । चकोर नेन्दुः कान्तास्यं किं चञ्जूपुटचालनैः ॥ १४२ ॥ तद्भेदतदभावान्यतरेद्धमितवस्तुनः ।
[ उत्तराधे
तद्वृत्त्यनुगतादृक्तद्धर्मसंबन्धहेतुना ॥ १४३ ॥ तत्त्वेन चारुतद्वत्वेन वा संभावनं भवेत् । उत्प्रेक्षावाच्यगम्यत्वभेदात्सा द्विविधोच्यते ॥ १४४ ॥
दिक् ॥ १४१ ॥ एवमपह्नुत्यलंकारीय चरमभेदी भूत कैतवापह्नुतिगयथार्थवस्त्वपलापकारोपस्य कैतवादिपदवर्णितत्वेन तत्प्रातिलोम्येन सुन्दरारोपनिरासपूर्वकं यथार्थवस्तुनिर्णयरूपं प्रसक्तं साहित्यदर्पणकारसंमतं निश्चयालंकारं लक्षयतिनिषिद्ध्यति । भ्रामिकं तिर्यगादिभिर्भ्रमकल्पितमित्यर्थः । वस्त्विति शेषः । निषिध्य प्रबाध्येति यावत् । तवेति । वास्तविकार्थकथनमित्यर्थः । निश्चयः निश्चयालंकारः । मतः साहित्यदर्पणकर्तुः संमतोऽस्तीतिसंबन्धः । एवंच तिर्यगादिभिर्भ्रमकल्पितं सुन्दरं वस्तु प्रतिबाध्य यथार्थवस्तुकथनं निश्चयालंकार इति तल्लक्षणं फलितम् । शिष्टं तु प्राग्वदेव । अत्र भ्रमनिश्चययोर्वैयधिकरण्येन निश्चयान्तसंदेहव्युदासः । तथा चकोरस्य भ्रान्तिमत्त्वेन संदेहाभावादपि सः सुन्दरपदेन शुक्तिरजतादिभ्रमबाधव्यावृत्तिः । तस्य चमत्कारकारित्वविरहात् । मुखे चन्द्रत्वानवधारणान्नात्र रूपकध्वनित्वम् । प्रस्तुतानिषेधाच्च नापदुतित्वम् । चकोरभ्रान्तेर्बाधाच्च न भ्रान्तिमत्त्वमिति शृङ्गारपुरस्कारकत्वेन चायं पृथगेवालंकार इति ध्येयम् । एतल्लक्षणमुक्तं दर्पण एव - ' अन्यन्निषिध्य प्रकृतस्थापनं निश्चयः पुनः' इति। अथ तमुदाहरति - चकोरेति । इयं हि नायकस्यैवोक्तिः 1 रे चकोर अयमिन्दुर्न भवति किंविदं कान्तास्यमेवास्त्यतस्ते चञ्चपुटचालनैः किं चन्द्रिकारसास्वादो नैव स्यादित्यन्वयः । यथावा दर्पण एव – 'वदनमिदं न सरोजं नयने नेन्दीवरे एते । इह सविधे मुग्धदृशो मधुकर मधु नो परिभ्रम्य' इति ॥ १४२ ॥ एवं निश्चयालंकारं निरूप्याथ निश्चित एव वस्तुनि धर्म्याद्युत्प्रेक्षणसंभवात्तत्प्रसङ्गसंगतामुत्प्रेक्षां लक्षयति-तद्भेदेत्यादिना किंचिदधिकसार्धेन । तच्छब्देनोत्प्रेक्ष्यं धर्म्याद्येवात्र तस्य यो भेदस्तथा स चासावभावः सर्वत्र प्रसिद्धोऽन्योन्याभावभिन्नः प्रागभावप्रध्वंसाभावात्यन्ताभावान्यतमाभावाख्यः संसर्गाभावश्चेति तथा भेदश्च तदभावश्चेति तथा तद्भेदतदभावयोर्योऽन्यतरः तद्भेदस्तत्संसर्गाभावो वा तेन इत्थं विशिष्टं यन्मितं प्रमाविषयत्ववद्वस्तु तस्य उत्प्रेक्ष्यार्थप्रतियोगिकचतुर्विधान्यतमाभावावच्छिन्न प्रमाविषयत्ववद्वस्तुन इत्यर्थः । तद्वत्तीति । तत्र वर्तते तमनुगच्छति चेति तद्वृत्त्यनुगौ तयोर्यस्तादृक्पूर्ववदन्यतरः एतादृशो यस्तद्धर्मः उत्प्रेक्ष्य वस्तुधर्मस्तस्य यः संबन्धः स चासौ हेतुर्निमित्तं तेनेत्यर्थः ॥ १४३ ॥ तत्वेनेत्यादि । चारु सुन्दरं यथा स्यात्तथा । तत्त्वेन उत्प्रेक्ष्यधर्मित्वेन । तद्वत्त्वेन वा उत्प्रेक्ष्यधर्मविशिष्टत्वेन वेति यावत् । सभा