SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८ ] सरसामोदव्याख्यासहितम् । आद्या कुवलयानन्दे वस्तुहेतुफलात्मभिः । त्रिधात्रोक्तास्पदाद्याद्ये सिद्धाद्यास्पदतः परे ॥ १४५ ॥ चनं अयोग्यत्वाभावानुसंधान विषयीकरणमित्येतत् । उत्प्रेक्षा एतन्नामकोऽलंकारो भवेदिति संबन्धः । तथाच उत्प्रेक्ष्यवस्तुप्रतियोगि कचतुर्विधाभावान्यतमविशिष्टप्रमितवस्तुन्युत्प्रेक्ष्यवृत्तितत्समानाधिकरणान्यतरधर्मसंबन्धनिमित्तकोत्प्रेक्ष्यधर्मिधर्मविशिष्टत्वान्यतरत्वेनातिरमणीयं यथा स्यात्तथैवायोग्यत्वाभावविषयकानुसंधानविषयीकरणविषयकज्ञानजनकशब्दबोध्यत्वमुत्प्रेक्षासामान्यलक्षणं परिणमति । अत्र प्रमितान्तेन वस्तुविशेषणेन 'सद्गुरो त्वामहं मन्ये प्रभावात्परमेश्वरम्' इत्यनाहार्यसंभावनायामयोग्यत्वाभावनिश्चयरूपायामतिप्रसङ्गभङ्गः परास्त: । तत्रेश्वरभिन्नत्वेन प्रमितत्वाभावात्प्रकृते तूत्प्रेक्ष्यभिन्नत्वेन प्रमितत्व संग्रहाच्च । एतेन प्रागुक्तभ्रान्तिमानपि व्याख्यातः | 'वदनकमलेन बाले स्मितसुषमालेशमावहसि यदा । जगदिह तदैव जाने दशार्धबाणेन विजितमिति' इति पण्डितराजपद्येऽतिव्याप्तिव्युदस्तये निमित्तकान्तम् । तत्रोत्प्रेक्ष्यमाणतात्कालिक मीनकेतनकर्तृकजगद्विजयेन सह स्मितस्य साधर्म्याभावात् । धर्म्यायुभयोत्प्रेक्षयोरपि संग्रहार्थमवशिष्टतृतीयान्तम् । 'विभज्य मेरुर्न यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययैर्मरुः । अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरः स्थितम्' इति प्रतीयमानाख्यगम्योत्प्रेक्षायामहृद्यत्वेन तन्निरासार्थं क्रियाविशेषणम् । तच्चाहृद्यत्वं यथा - 'पुण्यश्लोकशिरोमणौ महावीरचक्रवर्तिनि राज्ञि नले केशानामुत्प्रेक्षितविभज्य इत्यादिनिजयशोयुगसाधर्म्यर्थे द्विफालबद्धत्ववर्णनं यदकारि तेन तच्छिरसि सीमन्तस्यार्थापत्तिसिद्धत्वान्नटसाम्यं सूच्यत' इति । यद्यत्र महाकविप्रयोगादुक्तदोषावमो षाभिलाषस्तर्ह्येवं व्याचक्ष्व । द्विफेतिपदे बवयोः सावर्ण्यात् द्विफालवत् हा आः इति पदच्छेदेन तत्पूर्वार्धोक्तनिमित्तात्तेन नलेन चिकुराः केशाः शिरः स्थितं निजायशोयुगमेव । हा इति खेदे । आः इति चाश्चर्ये । द्विफालवत् यथा रणे शत्रुकृतकुठारप्रहारेण शिरसः फालशब्दितशकलद्वयं संपद्यते तद्वदमानीति । शिष्टं तु स्पष्टमेव प्रागुक्तमिति ॥ १४४ ॥ एवं रसगङ्गाधर परिष्कारसरण्यैवोत्प्रेक्षालक्षणं साधारण्याद्वाच्यगम्यत्वापराभिधप्रतीताख्यतद्भेदद्वयं चाभिधायाधुना तत्र प्रथमायाः सामान्यतः षड्डेदान् ससंमत्युद्दिशति — आद्येति । प्रभृत्यग्रिमगतगदितेत्यन्तेन । आद्या निरुक्तोत्प्रेक्षा भेदद्वयमध्ये प्रथमा वाच्याख्योत्प्रेक्षेत्यर्थः । कुवलयानन्दे । वस्त्विति । वस्तुहेतुफलरूपैरुपाधिभिरितियावत् । त्रिधा त्रिप्रकारा कथितास्तीति शेषः । अत्रेति देहलीदीपन्यायेन पुनरत्रापि संबध्यते । अत्र निरुक्तभेदत्रयमध्य इत्येतत् । उक्तास्पदादि उक्तं कण्ठतः कथितं आस्पदं उत्प्रेक्ष्यवस्त्वधिकरणं यस्यां सा तथा । सादिः प्रथमं यथा भवति तथेत्यर्थः । आदिना अनुक्तास्पदा । एवं भेदादुक्तास्पदानुक्तास्पदत्वभिन्ने आद्ये वस्तूत्प्रेक्षे प्रथमे द्वे भवत इत्यार्थिकम् । तथा परे हेतुफलोत्प्रेक्षे अवशिष्टे तु सिद्धादीति । ३६ ४२१
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy