Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
प्रथम उल्लास तु शोभाविशेष एवोत्कण्ठाकारणमिति बूमः । यद्यपि कतिपयाक्षराणामत्र द्विरावृतिरस्ती. त्यनुप्रासः संभाव्यते । तथापि -- 'खच्छन्दोच्छलदच्छकच्छकुह[ ५० २.१ रच्छातेतराम्बुच्छटा भूछन्मोहमहर्षिहर्षे त्यादिवचतुष्पश्चाद्यावृत्त्या [अ]मावान्नात्र स्फुटताऽनुप्रासखेति गम्यम् । विशेषविचारस्त्वस्मत्कृतबृहट्टीकातोऽवसेयः । अत्र केचित् - 'अदोषत्वं यत्किश्चिदोषामावो वा यावदोषाभायो वा ? । नाद्यः, अव्यावर्तकत्वात् । नान्त्यः, तथासति काव्यलक्षणं निर्विषयं विरलविषयं वा स्यात् । यावदोषाणां दुनिवारत्वात् । तस्माद् 'वाक्यं रसात्मकं काव्यमिति लक्षणम् । तथा च दुष्टेऽपि रसान्वये काव्यत्वमस्त्येव परन्त्वपकर्षमात्रम् । तदुक्तम्
कीटादिविन्द्ररनादिसाधारण्येन काव्यतर।
दुष्टेष्वपि मता यत्र रसाधनुगमः स्फुटः ॥ इति । एवं चालकारादिसत्त्वे उत्कर्षमात्रत्वम्' इति वदन्ति । परे तु 'यदंशे दोषस्तदंशेऽकाव्यत्वम् , यदंबो टोषाभावस्तदशे का यत्नम, ग्रथा एकमेव ज्ञानं प्रमाऽप्रमा चेति. दोषसामान्याभाव एवं विवक्षणीय' इत्याहुः | तन्न । एकमेव पचं अंशे काव्यं अंशेऽकाव्यमिति व्यवहाराभावात् । अन्ये तु दोषसामान्याभाव एवं लक्षणे प्रवेश्यः, विरल विषयत्वं काव्यलक्षणसेष्टमेव. दुष्टं काव्यमिति प्रयोगस्य दुष्टो हेतुरितिवत् समर्थनीयत्वाद्' इति पाहुः । परे तु 'काव्यमाखादुजीवातुः पदसंदर्भ' इति वदन्ति । तन्न । आस्वादुजीवातुतावच्छेदकरूपाऽपरिचये तस्य ज्ञातुमशक्यत्वात् । तत्परिचये तस्यैव लक्षणत्वसंभवात् । नवीनास्तु 'काव्यत्वमखण्डोपाधिः, चमत्कारजनकतावच्छेदकस्य काव्यपदप्रवृत्तिनिमित्तस्य चान्यस्य वमशक्यत्वात् , तदेव लक्षणमस्तु, किमनेनाननुगतेन लक्षणेन' इति वदन्ति ।
'सगुणाविति गुणन्यनकावित्यर्थः । गुणानां रसैकधर्मस्वात् शब्दार्थयोः सगुणत्वाभावात् । 'अनलकृती' इति सालङ्कारावित्यर्थः ।
यदपि 'काव्यत्वं शब्दार्थोमयवृत्ति तदपि न । काव्यं करोति, काव्यं पठति, शृणोति वेति व्यवहाराच्छब्द एव काव्यत्वं कल्पनीयम् । ननु आस्वादन्यञ्जकत्वमेव काव्यत्वप्रयोजकम् , तच शब्देऽर्थे चावि[प० २.२ ] शिष्टम् , तथा च कथं काव्यं करोतीति व्यवहारस्य शब्दमात्रपरत्वम् ? इति चेत् न । आस्वादन्यञ्जकानामन्येषामपि सत्त्वात् तेष्वपि काव्यत्वं स्वीकुरु । उभयवृत्तित्वकल्पने गौरवात् काव्यं करोतीति काव्यपदस्य शब्दमानपरत्वे बीजत्वात् । - अथ' काव्यभेदानाह -- इदमुत्तममतिशयिनि व्यङ्ये वाच्यात् ध्वनिर्बुधैः कथितः॥
(मू० का० ४, उ.) व्यङ्गये वाच्यात् भतिशयिनि अधिकचमत्कारकारिणि सति उत्तम काव्यम् । बुधैवैया: १ 'निजातीयमुखाभिव्यक्तिजनकत्ताव छेदकस्पेयर्थः । इति मूलादर्स टिप्पणी । .

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130