Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 93
________________ उल्हास ७१ ततस्तदनन्तरं शशी चन्द्रः कामेन कन्दर्पेण परिक्षामा कुशा या कामिनी तस्या यो गण्डो गात् परप्रदेशस्तद्वत् पाण्डुतां पाण्डरवर्णतां दधे धृतवान् । कीदृशः ! अरुणस्य सूर्यस्य परिस्पन्दनोदयेन मन्दीकृतं ग्लानतां नीतं वपुः शरीरं यस्य सः । मन्द-स्पन्दीत्यत्र काम-कामिनीत्यत्र नकार- दकारयोः ककार -मकारयोरप्यनेकस्य सकृत् साम्यम् । एकस्याप्यसकृत्परः || (का० ७९, ब० पा० ) अपिशब्दादनेकस्य व्यञ्जनस्य वा द्विर्बहुकृत्वो या सादश्यं वृत्त्यनुप्रासः । पृतिर्वि भजते । तत्र - सर्वत्र प्रागुदाहृतम् - 'अनङ्गरङ्गप्रतिम' मित्यादिना, 'सूर्मामुद्धृतकृत्ये 'त्यादिना, 'अपसारय बनसार' मित्यादिना च । शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः । ( मू० का० ८१, उ० ) पूर्वं तुवर्णानुप्रासो दर्शितः, अयं तु शब्दानुप्रासः । शाब्दः शब्दगतोऽनुरासः । शुध्यते प्रकाश्यते अनेन । शाब्दश्य पदं प्रातिपदिकं च । लाटानुप्रासः पुनः शाब्दः शब्दगतो न वर्णगत इत्यर्थः । अतः छेकवृत्तिभ्यामस्य भेदः । +माधुर्यव्यञ्जकैर्वणैवैदर्भी रीतिरिष्यते । ओजःप्रकाशगडी पाञ्चाली तैस्तथा परैः ॥ (० का० ८० ) पदानां सः लाटानुप्रासः । प्रागुदाहृतम् 'यस्य न सविधे दयिते' त्यादि । पदस्यापि (का० ८२, प्र० पा० ) उदा० - वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः क नु पुनः कलङ्कविकलो भवेत् ॥ तस्या वरवर्णिन्या उत्तमाङ्गनायाः चंदनं मुखं सुधाकरश्चन्द्रः इति सत्यं यथार्थम् । पुनः सुधाकरः चन्द्रः कलङ्कविकलो लान्छन महिनः तस्या यदनं क भवेन भवेदित्यर्थः । वृत्तावन्यत्र तत्र वा । (, द्वि० पा० ) मान्नः स वृस्यवृत्त्योश्च, ( १० पा० ) एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम् । प्रत्ययरहितस्यैव प्रातिपदिकत्वात् । यथा www + मुकेषु तु " माधुर्वव्य अकैचेणै रूपनागरि कोच्यते । - ओजःप्रकाशकैस्तैस्तु परुश कोमला परेः ।" पठः पठ्यते ।

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130