Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 99
________________ दशम उल्लास तद्धिते पूर्णा श्रौतीमुदाहरति । तस्य राज्ञो गाम्भीर्यस्य गरिमा गुरुत्वं गड़ाया मुजङ्गः कामुकः समुद्रस्तद्वत् तस्येव । अत्र 'तत्र तस्यैवे'त्यनेनेवार्थे यतेविधानाच्छौतीत्वमालोकनीयम् । एवं क्यचि क्यङि णमुलि च भवत्युपमा ! क्रमेणादाहरणानि पौर सुतीयति जन समरान्तरेऽसावन्तः पुरीयति विचित्रचरित्रचक्षुः । नारीयते समरसीम्नि कृपाणपाणावालोक्य तस्य ललितानि सपलसेना ।। असौ राजा पोरं लोकं सुतीयति सुतमिवाचरति । उपमानाशवाचार इति कर्मणि क्यच् । संग्राममध्ये अन्तःपुर इवाचरति । अधिकरणाचेति क्यच् । तस्य चरितानि निरीक्ष्य शत्रुसेना संग्रामसीमनि नारीयते नारीवाचरति । कर्तुः क्यइ सलोपश्चेति क्या । गमुलि मेदद्वयं दर्शयति-मधेति मृधे निदाघधर्माशुदर्श पश्यन्ति तं परे । स पुनः पार्थसञ्चारं सश्चरत्यवनीपतिः ॥ मृधे संग्रामे परे शत्रवस्त्र राजानं निदाघधमाशुदर्श निदाघकालीनसूर्यमिव पश्यन्ति । स पुमरक्नीपतिः राजा दीर्घसञ्चारं पार्थ इव सञ्चरति । अत्र 'कषादिषु यथाविध्यनुप्रयोगः । अथ लुप्ता, तत्रेवादेलोपे यथा ततः कुमुदनाथेन कामिनीगण्डपाण्डुना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलतता ॥ . द्विपदसमासे तावदुदाहरति । ततस्तदनन्तरं चन्द्रेण माहेन्द्री पूर्वी [५० ४५.२] दिक अलता शोभिता । कीरशेन ? कुमुदानां नाथेन प्रकाशकेन कामिनीगण्डवत् पाण्डुना पाण्डवणेन नेत्रानन्देन नयनसुखजनकेनेत्यर्थः । अत्र गण्डपाण्डुनेति द्वयोरेव पदयोः समासः । तथा धर्मवाद्योयोलोंपे यथा सविता विधयति विधुरपि सवित्तरति [तथा] दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥ सुखमनुकूलवेदनीयम्, दुःखं प्रतिकूलवेदनीयम् । ताभ्यां व्याप्ते चिते सति, सविता सूर्यो विश्वति विधुरिवाचरति । विधुश्चन्द्रः सवितरति सवितेबाचरति । यामिन्यो रात्रयो दिनन्ति दिनानीवाचरन्ति । दिनान्यपि दिवसान्यपि यामिनयन्ति यामिन्य इषाचरन्तीत्यर्थः । विधुरिवाचरतीत्याचारेऽर्थे किए तल्लोपश्च । आचारार्थककिपो लोपात् धर्मानुपादानम् । एतयोलोंपे - समासेऽपि, यथा-राजते राजकुञ्जरः- राजा कुञ्जर इव । त्रयाणां वादिधर्मोपमानानो लोपे भवत्युपमा । यथा- मृगनयना मानसं हरतीत्यादौ । 'सप्तन्युपमानेत्यादिना यदा समासलोपौ। अनयेनेव राजश्रीदैन्येनेव मनस्विता । मम्लो साञ्च(थ)विषादेन पमिनीव हिमाम्भसा ॥

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130