Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
दशम उल्लास उदात्तं वस्तुनः संपत्. (का० ११५, तृ० पा० ) संपत् समृद्धियोगः । यथा
मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः,
प्रातः प्राङ्गणसीनि मन्थरचलबालानिलाक्षारुणाः। दुराद दाडिमवीजशङ्कितधियः कर्षन्ति केलीशुकाः,
यद् विद्वद्भवनेषु भोजनृपतेस्तत् त्यागलीलायितम् ।। कालेभिर्विसूत्रा ये हारा [ प०५४,1 स्तभ्यो गालेता या मुक्ता मुक्ताफलानि ताः प्रातःकाले मार्जनीभिर्दृतास्तथाऽजन(ण)देशे मन्थरं मन्दं चलन्तो ये बालानां कामिनीनां अंड्यस्तेषां लाक्षया अरुणाः ताः क(कि)माभूताः दूरात् दृष्ट्वा दाडिमवीजमिति शङ्कितबुद्धयः क्रीडाकीराः विद्वद्भयनेषु यत् कर्षन्ति तद् भोजनृपतेस्त्यागलीलायाश्चेष्टितम् । मत्र विद्वद्भवनस्य मुक्तादिधनसमृद्धियोगः ।
महतां चोपलक्षणम् ॥ (का० ११५, च० पा.) उपलक्षणमङ्गभावः, अर्थादुपलक्षणीयेऽर्थे ।
तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी ।
निवसन् बाहुसहायश्चकार रक्षाक्षयं रामः॥ न चात्र बीरो रसस्तस्येहानत्वात् ।
तत्सिद्धिहेताकस्मिन् यत्रान्यत् तत्करं भवेत् ।
समुघयोऽसौ. (का० ११६,) यथा
एवमेव विषमो नवमेघः सोऽपि वर्षतितरामभिरामम् ।
तत्र चेदविरलं प्लवशब्दाः पूर्णमेव सुतनोः शतमन्दाः ॥ अत्र शतपूर्णतायां नवमेघः करणं तदुपरि वर्षणायुक्तं काव्यलिङ्गे हेतु-हेतुमद्भावमात्र विवक्षितं न पुनः हेतूनां गुणप्रधानचिन्ता । अत्र तु एकस्यैव तत्कार्यकारित्वं अन्ये तत्साहायकं कुर्वन्ति इति ततोऽस्याः भेदः ।
स त्वन्यो युगपद् या गुणक्रियाः॥ (का० ११६, २०) गुणौ [च ] क्रिये च इति गुणक्रियाः ।
नयनं तव रक्तं च मलिनाश्च रणेऽरयः ।
धुनोति चासिं सहसा तनुपे च महद्यशः ॥ एवं गुणक्रिययोरपि बोध्यम् । . एक क्रमेणानेकस्मिन् पर्याया. (का० ११७, पू० ) एक वस्तु क्रगेणानेकसिन् यदभिधीयते स पर्यायः । उदा० -
का ५० १२

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130